*संस्कृतभाषा जगतः एकतमा अतिप्राचीना समृद्धा शास्त्रीया च भाषा वर्तते।* संस्कृतं भारतस्य जगत: वा भाषास्वेकतमा(भाषासु एकतमा) प्राचीनतमा। संस्कृता वाक्, भारती, सुरभारती, अमरभारती, अमरवाणी, सुरवाणी, गीर्वाणवाणी, गीर्वाणी, देववाणी, देवभाषा, दैवीवाक् इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा।
भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः। संस्कृतात् एव अधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।
व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति। अष्टाध्यायी इति नाम्नि महर्षिपाणिनेः विरचना जगतः सर्वासां भाषाणाम् व्याकरणग्रन्थेषु अन्यतमा, वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्थानं इवास्ति।
संस्कृतवाङ्मयं विश्ववाङ्मये अद्वितीयं स्थानम् अलङ्करोति। संस्कृतस्य प्राचीनतमग्रन्थाः वेदाः सन्ति। वेद-शास्त्र-पुराण-इतिहास-काव्य-नाटक-दर्शनादिभिः अनन्तवाङ्मयरूपेण विलसन्ती अस्ति एषा देववाक्। न केवलं धर्म-अर्थ-काम-मोक्षात्मकाः चतुर्विधपुरुषार्थहेतुभूताः विषयाः अस्याः साहित्यस्य शोभां वर्धयन्ति अपितु धार्मिक-नैतिक-आध्यात्मिक-लौकिक-वैज्ञानिक-पारलौकिकविषयैः अपि सुसम्पन्ना इयं देववाणी।
.....
*संस्कृतभाषाप्रभावाः*
संस्कृतभाषाया शब्दाः मूलरूपेण सर्वासु भारतीयभाषासु लभ्यन्ते। सर्वत्र भारते भाषाणामेकतायाः रक्षणमपि केवलं संस्कृतेनैव क्रियमाणाम् अस्ति। अस्यां भाषायां न केवलं भारतस्य अपि तु निखिलस्यापि जगतः मानवानां कृते हितसाधकाः जीवनोपयोगिनः सिद्धान्ताः प्रतिष्ठापिताः सन्ति। इयमेव सा भाषा यत्र ध्वनेः लिपेश्च सर्वत्रैकरूपता वर्तते। मलयाळम्, तेलुगु, कन्नड इति इमाः दाक्षिणात्यभाषाः संस्कृतेन भृशं प्रभाविताः।
*तत्सम-तद्भव-समान-शब्दाः तालिका --* ( _सहप्रेषितं चित्रं पश्य)_
संस्कृतशब्दः हिन्दी मलयाळम् कन्नडा तेलुगु ग्रीका लेतिना आङ्गली दोएच/जर्मन
मातृ माता मातेर मोथर् मुटेर
पितृ पिता पातेर फ़ाथर् फ़ाटेर
दुहितृ दोहता दाह्तर्
भ्रातृ भाई, भ्राता ब्रदर् ब्रुडेर
पत्तनम् पट्टन, पटना पट्टणम्
वैदूर्यम् वैडूर्यम् वैडूर्यम्
सप्तन् सात् सेप्तम् सेव्हेन् ज़ीबेन
अष्टौ आठ् होक्तो ओक्तो ऐय्ट् आख़्ट
नवन् नौ हेणेअ नोवेम् नायन् नोएन
द्वारम् दोर् टोर
नालिकेरः नारियल् नाळिकेरम्
No comments:
Post a Comment