*स्वर्वाणीप्रकाशः*
(वाट्साप्प् सदः)
🌷रविवासरः (24-12-17) षष्ठी🌹
✍प्रस्तावविषयः-- मन्दिरनियमाः💐
(मन्दिरे कथं भवितव्यं भक्तजनैः इति)
मन्दिराणि भक्तिमार्गेण जनेभ्य आध्यात्मिकोन्नतिं यच्छन्ति। देवालयैः विविधदेवताः पूज्यन्ते।यद्यपि आचारकालदेशानुसारं मन्दिरनियमेषु भिन्नतां द्रष्टुं शक्नुमः तथापि सनातननियमान् अपि द्रष्टुं शक्नुमः। देवशरीरस्य स्थूलरूपमस्ति मन्दिरम्।
*इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते। *
इति गीतायाम्।
*गर्भगृहं शिरप्रोक्तः*
*अन्तरालं मुखं तथा*
*सुखासनं गलश्चैव*
*बाहुश्चैवार्धमण्डपम्*
*महामण्डपं कुक्षि: स्यात्*
*प्राकारं जानुजघयोः*
*गोपुरं देवपादः स्यात्*
*यद्येते लक्षणं शुभम्*
(क्षेत्रचैतन्यरहस्यम् )
एवं सम्पूर्णमन्दिरं देवमयम् अस्ति इति भावनया एव मन्दिरं गच्छेम।
सत्त्वरजतमोगुणानुसारं मन्दिराणि तथा आचाराः भिन्नाः दृश्यन्ते तथापि
केचन मन्दिरनियमान् पश्यामः
~ मनसा वाचा कर्मणा च शौचं भवेत्।
~ स्नानं विना मन्दिरगमनं न कुर्यात् ।
~ मन्दिरे निरर्थकभाषणं न भवेत् केवलं भगवतः मन्त्रजपमेव कुर्यात्।
~ मन्दिरस्य शुचित्वपालनम् भक्तानां कर्त्तव्यम् अस्ति।
~ रिक्तहस्तेन मन्दिरं न गच्छामः। पुष्पं वा फलं वा तैलं वा धनं वा यत्किमपि योग्यवस्तूनि नयामः।
~ वस्तूनां समर्पणं भक्त्या भवेत्।
~ देवदर्शनं सम्यक् कुर्युः अन्येषाम् अपि सुलभदर्शनार्थं सौकर्य्यं कल्पयेत् ।
~ यथाविधिः प्रदक्षिणं नमस्कारान् च कुर्मः।
~ उचितस्थाने किञ्चित् कालम् उपविश्य जपेत् अपि ध्यायेत्।
~ यथाशक्तिः दक्षिणां दत्त्वा प्रसादं स्वीकुर्यात्।
~ बलिपीठेषु स्पर्शनं कदापि मास्तु।
~ निषिद्धवस्तूनि न नयामः।
~ अज्ञात्वा अन्यं वा दृष्ट्वा वा मन्दिरे किमपि आचरणं न कुर्यात्।
~ क्षेत्रकार्यक्रमेषु यावत् शक्यं तावत् भागं स्वीकुर्यात्।
~ मन्दिरदर्शनविधिम् अनुगुणं दर्शनं कुर्मः नोचेत् मुख्यदेवं नमस्कृत्य उपदेवान् नमामः।
~ नित्यं मन्दिरदर्शनं कुर्मः।
एवं प्रकारेण चित्तशुद्धिं प्रप्य आचरणेन धार्मिकजीवनं कुर्मः।।
🙏🙏🙏
~ सुनीश् नम्बूतिरि
No comments:
Post a Comment