Wednesday, January 31, 2018

Multiple varas in one stroke-Sanskrit story

अन्धं दरिद्रमथ च प्रियया विहीनं वीक्ष्येश्वरो वदति याच वरं त्वमेकम् ।
नेत्रे न नापि वसु नो वनितां स वव्रे छत्राभिरामसुतदर्शनमित्युवाच ॥

कश्चन अन्धः आसीत् । सः नितरां दरिद्रः अपि । तस्य पत्नी दिवङ्गता आसीत् । तादृशः कदाचित् तपः कृत्वा ईश्वरं तोषितवान् । सन्तुष्टः ईश्वरः प्रत्यक्षीभूय 'एकम् एव वरं ददामि भवते । भवान् यत् इच्छति तत् याचतु' इति अवदत् । तदा सः अन्धः न नेत्रे प्रार्थितवान् । न ऐश्वर्यं प्रार्थितवान् । न पत्नीप्राप्ति प्रार्थितवान्, अपि तु उक्तवान् - 'सुवर्णच्छत्रविभूषितं पुत्रं द्रष्टुम् इच्छामि' इति । यदि एषा अपेक्षा पूरणीया तर्हि ईश्वरेण तस्मै दृष्टिशक्तिः, पत्नी, ऐश्वर्यं च दातव्यानि एव खलु ?

No comments:

Post a Comment