बालकः पठति।
कः पठति?
बालकः किं करोति?
बालकः विद्यालये/पाठशालायां/गृहे पठति।
बालकः कुत्र पठति?
बालकः पञ्चपाठान् विद्यालये पठति।
बालकः कति पाठान् विद्यालये पठति?
बालकः प्रातः काले नववादने पञ्चपाठान् विद्यालये पठति।
बालकः कदा विद्यालये पञ्चपाठान् विद्यालये पठति।
बालकः सन्तोषेण प्रातःकाले नववादने पञ्चपाठान् विद्यालये पठति।
बालकः कथं प्रातःकाले नववादने पञ्चपाठान् विद्यालये पठति?
बालकः गहतः आगत्य सन्तोषेण प्रातःकाले नववादने
पञ्चपाठान् विद्यालये पठति।
बालकः कुतः आगत्य सन्तोषेण प्रातःकाले नववादने
पञ्चपाठान् विद्यालये पठति?
बालकः परीक्षार्थं गृहतः आगत्य सन्तोषेण प्रातःकाले नववादने पञ्चपाठान् विद्यालये पठति।
बालकः किमर्थं गृहतः आगत्य सन्तोषेन प्रातःकाले नववादने पञ्चपाठान् विद्यालये पठति?
किं कुत्र कति कदा कथं कुतः किमर्थम्?
No comments:
Post a Comment