Wednesday, January 31, 2018

Silence is sweet - Sanskrit

courtesy:Sri.Dr.P.K. Narayanan

================

मौनमेव मधुरम् मधुकौमुदीप्रसरसमये
मौनमेव मधुरं मधुकौमुदीप्रसरसमये
मनसो माधवो
नयने कुसुमितः
मनसो माधवो
नयने कुसुमितः
रोमाञ्चे प्रसरति
तव मौनमेव मधुरं
मधुकौमुदीप्रसरसमये ॥
विकसन्नधरः स्पन्देन्नु कुतः
द्युतिमन्नयनं क्लिद्येत कुतः
वियुङ्क्तो वपुषी लयेते जीवौ
वियुङ्क्तो वपुषी लयेते जीवौ
दूरदूरगामिनीं मूकतां च सुकवितां
जानीमो वाचालाम्
मौनमेव मधुरं मधुकौमुदी प्रसरसमये ॥
विगलन्निमिषः स्थायी न चिरं
विगलच्च सुमं फुल्लेन्न पुनः
क्षुब्धे पवने प्रचलेदुपवनम्
क्षुब्धे पवने प्रचलेदुपवनम्
दूरदूरवाहिनी वायुवीचिरानयेत्
सन्देशं सुन्दरम् ॥
मौनमेव मधुरम् मधुकौमुदीप्रसरसमये
मौनमेव मधुरं मधुकौमुदीप्रसरसमये
मनसो माधवो
नयने कुसुमितः
मनसो माधवो
नयने कुसुमितः
रोमाञ्चे प्रसरति
तव मौनमेव मधुरं
मधुकौमुदीप्रसरसमये ॥ डॉ। नारायणन्।

No comments:

Post a Comment