Wednesday, December 27, 2017

Grammar fever- Sanskrit

Courtesy Sri. Shreyas Mohan 
व्याकरण ज्वरम् (णत्व विधि प्रयोगः)

अहं सोमवासरे पुरीतः गृहम् आगतवान् । आगमनात् परम् अहं ज्वरेण पिडितः अभवन् । वहुः ओषधं खादितवान् , परन्तु किमपि परिवर्तनं न अभवत् । अतः गुरवासरे अहं मम शिक्षकस्य समीपं गतवान् । शिक्षकं कथितवान्- 
         महोदय ! अहं ज्वरेण पिडितः ।
शिक्षकः- भवान् ! ज्वरेन पिडितः ।
            आम् , अहं ज्वरेण पिडितः ।
शिक्षकः-किदृशः ज्वरेन पिडितः भवान् जानति ?
           न अहं किदृशः ज्वरेण पिडितः अहं न जानामि ।
       महोदय ! "ज्वरेन" न भवति , ज्वरेण भवति । अत्र `णत्वʼ विधि सुत्रानुसारं (ऋ,र्,ष्) `नʼ स्य `णʼ भवति । अतः अत्र `ज्वरेनʼ इति कथनेन अशुद्धिं भवति । अत्र "ज्वरेण" इति वक्तव्यम् ।

शिक्षकः-आम् , भवान् तु व्याकरण ज्वरेण पिडितः । अतः अष्टाध्यायी पाणिनी नाम्ना पुस्तकं पठतु । भवतः स्वास्थ्यं शीघ्रं समीचीनं भविष्यति ।
      अहमपि गृहमागत्य पाणिनी अष्टाध्यायी पठितवान् । इदानीम् मम स्वास्थ्यं समीचीनम् अस्ति । गणान्तरात्।

No comments:

Post a Comment