Wednesday, November 29, 2017

Sanskrit subhashitam

सन्तोषस्त्रिषु कर्तव्यः कलत्रे भोजने धने l
त्रिषु चैव न कर्तव्यो अध्ययने जपदानयोः ||


*पदविभागः  /  प्रतिपदार्थः*
सन्तोषः - आनन्दः
त्रिषु  - त्रिषु
कर्तव्यः  - करणीयः
कलत्रे - भार्यायाम्
भोजने -  आहारे
धने - वित्ते
त्रिषु - एतस्मिन् त्रिषु विषये
च - अव्ययम्
एव - अव्ययम्
न - अव्ययम्
कर्तव्यः - तेन अवश्यं कृतं कार्यम्
अध्ययने - शिक्षणे
जप: - जप विषये 
दान:  - दान विषये

*अन्वयः*

कलत्रे भोजने धने त्रिषु (विषये) सन्तोषः कर्तव्यः।
अध्ययने जपे दाने च त्रिषु   (विषये) एव (सन्तोषः) न कर्तव्यः।

*तात्पर्यम्*

मनुष्य: सदा अनेक वस्तुनी इच्छति | अत: स: अनेक वस्तुनी प्राप्तवान् अपि स:  सनतोषं न अनुभुतवान् |पश्चात् स: अठति | एतत् सुभाषिते सुभाषितकार: के के विषये सन्तोषं कर्तव्यं   के के विषये सन्तोषं न  कर्तव्यं  इति उक्तवान् |

मनुष्य: तस्य कलत्रं  भोजनं धनं विषये सन्तोषं कर्तव्यम् | अध्ययनं जपम् दानम् विषये सन्तोषं न करणीयम् |


*सन्धिः*
सन्तोषः+त्रिषु - विसर्गस्य सकारः
च + एव - वृद्धिसन्धिः
कर्तव्यः+अध्ययने - विसर्गःउकारः गुणसन्धिः

No comments:

Post a Comment