*रामायणे अविज्ञातः सत्यांशः - सर्वैः पठितव्यः , अवगन्तव्यः*
*युद्धस्य अन्तिमघट्टः*
*सर्वत्र रक्तं नदी इव प्रवहति स्म । परिनिर्जितः रावणः भूमौ पतितः अस्ति । रामबाणेन घातितः रावणः वेदनया हुङ्कारगर्भं कुर्वन् तस्य मरणं निरीक्षते स्म*
रामः लक्ष्मणम् आहूतवान्
भातृविधेयः लक्ष्मणः आगत्य "किं करवाणि?" इति विनयेन पृष्टवान्
"प्रिय भ्रातः, भवता एकं बहुमुख्यं कार्यं करणीयम् अस्ति । रावणः दुर्जनः चेदपि सः एकः महान् पण्डितः अस्ति , सकलवेदपारङ्गतः अस्ति, परमशिवभक्तः , चक्रवर्ती, गानगन्धर्वः, ज्ञानी च । तस्य अन्तिमक्षणं सन्निहितम् । तस्य समीपं गत्वा , मर्यादां दत्वा, तस्मात् कोsपि विशेषः सन्देशः अस्ति वा इति पृष्ट्वा आगच्छतु" - रामः लक्ष्मणम् आज्ञापितवान्
परमविनयान्वितः लक्ष्मणः रामस्य वचनानुसारं क्षणेन रावणस्य समीपम् आगत्य रावणस्य शिरसः समीपं तिष्ठति । तस्य पादशब्देन एव आगतः लक्ष्मणः इति परिज्ञातः रावणः तूष्णीं भवती । दीर्घसमयं प्रतीक्षमाणः लक्ष्मणः असहायकः भूत्वा रामस्य समीपम् प्रत्यागतवान्, वृत्तान्तं निवेदितवान् ।
*लक्ष्मण, यदा भवान् जिज्ञासार्थं वा विज्ञातुं यस्य कस्यापि समीपं गच्छति तदा गत्वा तस्य पादयोः समीपम् एव स्थातव्यम् न तु शिरसः । प्रथमं विनयः प्रदर्शितव्यः , तेन सः आकर्षितव्यः, सन्तोषितव्यः* ।
लक्ष्मणः पुनः गत्वा रावणस्य पादयोः पुरतः विनयेन तिष्ठति । आगन्तं लक्ष्मणं दृष्ट्वा मन्दहासेन रावणः तस्य स्वागतं करोति ।
*मया किं करवै?* - रावणः विनयेन पृच्छति
लक्ष्मणः मौनी एव तिष्ठति ।
तस्य आगमनस्य काराणं ज्ञात्वा रावणः तं लक्ष्मणं इतोsपि निकटम् आहूय भवते त्रीन् बहुमुख्यविषयान् वदिष्यामि इति उक्त्वा लक्ष्मणस्य कर्णे एवं वदति -
*१. सदा वाट्सप् मध्ये संलग्नः मा भवतु , तत्रत्य सर्वाः कथाः पठन् भवतः अमूल्यं समयं मा नष्टं करोतु, संस्कृताध्ययने वाट्सप् उपयोगं करोतु *
*२. भवतः रहस्य तथा वैयक्तिकविषयान् फेस्बुक् मध्ये मा प्रकाशयतु*
*३. प्रयाणसमये जङ्गमदूरवाण्याः उपयोगं मा करोतु*
*जीवने भवतः श्रेयः भविष्यति*
😄😄😂
No comments:
Post a Comment