Wednesday, November 29, 2017

GOD resides in every being - Sanskrit essay

Courtesy:Smt.Bala chiravoori

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति।
भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया।।
  इत्युक्तं गीताचार्येण--
कथं? 
सांख्ये एवमस्ति- प्रकृतेर्महान्,महतोऽहंकारः,अहंकारादाकाशः , आकशाद्वायुः, वायोरग्निः, अग्नेरापः, अद्भ्यःपृथिवी, पृथिव्या ओषधयः,ओषधीभ्योन्नं, अन्नाद्रेतः , रेतसःपुरुषः.... इति। अत्र किं ज्ञायते? एक एव परमात्मा महदारभ्य सर्वत्रापि व्यापको भवति। एक एव परमात्मा ब्रह्मा रूपेण सृजति। विष्णुरूपेण पालयति। रुद्ररूपेण संहारं करोति। एक एव परमात्मा चैतन्यरूपं धृत्वा शिलायां कठिनत्वं प्राप्नोति।। जले द्रवत्वं, वायौ स्पर्शरूपमावहति। सर्वत्रापि परमात्मा एक एव। किन्तु परमात्मा पृथग्विधानेन विभिन्नरूपेषु स्थित्वा स्वेष्टकार्याणि  करोति। यथा गृहे एक एव पुरुषः पित्रे पुत्रवत्, पत्न्यै पति रूपेण, संतानंमुद्दिश्य पितृ रूपेण व्यवहरति खल।तथैव भगवद्विषयोऽपि।

  यदि सर्पः आगते सति किं करिष्यामो वयम्? सहसैव तं सर्पं हन्तुं प्रयतिष्यामः। परन्तु सर्पे परमात्मा भवति तदर्थं कथं ताडनीयमिति  न विचारयामः । किमर्थं? सर्पदंशनेन वयं मृत्युं प्राप्स्याम इति भयात्। यदि सर्पं रुद्ररूपमिति मत्वा  औदासीन्यं वहामश्चेत् सर्पोपि उदासीनो भवेत्। किन्तु तथाविधं भावयितुं अत्यधिकं प्रयासमावश्यकम्। 

एकदा रमणमहर्ष्याश्रमे सर्वेऽपि भोजनं कुर्वन्ति स्म। तदा एकः शुनकःआगत्य तत्र स्थितायां स्थाल्यां मिष्टपदार्थं किंचिद्भुङ्क्त्वा अगच्छत्। अनन्तरं रमणमहर्षिः तं पदार्थमेव परिवेषयित्वा खादन्नस्ति। सर्वे भक्ताः उक्तवन्तःस पदार्थः शुनकोच्चिष्टः इति । किन्तु रमणमहर्षिः उक्तवान्-  "कात्र चिन्ता? ईश्वर एव शुनकरूपेण पदार्थं आस्वादितवान्, सर्वेऽपि अदन्तु" इति । रमणमहर्षेः स्थितिः तथाविधा अस्ति। अत एव ते यत्र कुत्रापि भेदं न पश्यन्ति। किन्तु वयं एवं प्रकारेण कर्तुं समर्था वा? 
 श्रीशंकराचार्यः चण्डालमुद्दिश्य दण्डवत् प्राणमत् । कथं? सर्वत्रापि परमात्मानमेव पश्यति अत एव। रामकृष्णपरमहंसः वेश्यां दृष्ट्वा तांमम्बामिव मत्वा अर्चनामकरोत्। तथैव स्वभार्यां शारदाम्बामुद्दिश्यापि। 

   ते महात्मानःसर्वे सर्वत्र समभावेन परमात्मानं पश्यन्ति। न ते सर्वत्र समवर्तित्वेन व्यवहरन्ति। 
गान्धीमहाशयः उक्तवान् । यदि कश्चित्  एकः कपोलं ताडितवान्चेत् अन्यत्कपोलं दर्शय इति। किमर्थं दर्शयामः? सः अस्माकं पिता वा उत गुरुर्वा? एवं प्रकारेण  असमर्थाः  न भवेम। 
सर्वेपि स्नेहमयजीवनमेव यापयामः किन्तु सनातन धर्मविषये यः निग्रहीतुं प्रयत्नं करोति तस्य विषये किमर्थं तूष्णींभावेन स्थास्यामः? भगवद्गीतासारांशमेतदेव खलु। 

         "स्वधर्मे निधनं श्रेयः परधर्मो भयावहः"

          -सर्वं श्रीगुरुचरणार्पणमस्तु।🙏

                         - बाला...✍ गणान्तरात्।

No comments:

Post a Comment