Sringeri Jagadguru Sri Sri Bharati Teertha Mahaswami virachitam
Sri Chandramoulishwara Varnamala Stotram
||श्रीचन्द्रमौलीश्वर-वर्णमाला-स्तोत्रम् ||
श्रीशात्मभूमुख्यसुरार्चिताङ्घ्रिं श्रीकण्ठशर्वादिपदाभिधेयम् ;
श्रीशङ्कराचार्यहृदब्जवासं
श्रीचन्द्रमौलीशमहं नमामि . १ .
चण्डांशुशीतांशुकृशानुनेत्रं
चण्डीशमुख्यप्रमथेड्यपादम् ;
षडास्यनागास्यसुशोभिपार्श्वं
श्रीचन्द्रमौलीशमहं नमामि . २ .
द्रव्यादिसृष्टिस्थितिनाशहेतुं
रव्यादितेजांस्यपि भासयन्तम् ;
पव्यायुधादिस्तुतवैभवं तं
श्रीचन्द्रमौलीशमहं नमामि . ३ .
मौलिस्पुरज्जह्नुसुतासितांशुं
व्यालेशसंवेष्टितपाणिपादम् ;
शूलादिनानायुधशोभमानं
श्रीचन्द्रमौलीशमहं नमामि . ४ .
लीलाविनिर्धूतकृतान्तदर्पं
शैलात्मजासंश्रितवामभागम् ;
शूलाग्रनिर्भिन्नसुरारिसङ्घं
श्रीचन्द्रमौलीशमहं नमामि . ५ .
शतैः श्रुतीनां परिगीयमानं
यतैर्मुनीन्द्रैः परिसेव्यमानम् ;
नतैः सुरेन्द्रैरभिपूज्यमानं
श्रीचन्द्रमौलीशमहं नमामि . ६ .
मत्तेभकृत्या परिशोभिताङ्गं
चित्ते यतीनां सततं वसन्तम् ;
वित्तेशमुख्यैः परिवेष्टितं तं
श्रीचन्द्रमौलीशमहं नमामि . ७ .
हंसोत्तमैः चेतसि चिन्त्यमानं
संसारपाथोनिधिकर्णधारम् ;
तं सामगानप्रियमष्टमूर्तिं
श्रीचन्द्रमौलीशमहं नमामि . ८ .
नताघहं नित्यचिदेकरूपं
सतां गतिं सत्यसुखस्वरूपम् ;
हतान्धकं हृद्यपराक्रमं तं
श्रीचन्द्रमौलीशमहं नमामि . ९ .
मायातिगं वीतभयं विनिद्रं
मोहान्तकं मृत्युहरं महेशम् ;
फालानलं नीलगलं कृपालुं
श्रीचन्द्रमौलीशमहं नमामि . १० .
मित्रं हि यस्याखिलशेवधीशः
पुत्रश्च विघ्नौघविभेददक्षः ;
पात्रं कृपायाश्च समस्तलोकः
श्रीचन्द्रमौलीशमहं नमामि . ११ .
No comments:
Post a Comment