Courtesy Mp saraswat
*देवेभ्यः प्रणतिर्मम*
1
*महाकाल! नमस्तुभ्यमुज्जयिनीश्वर प्रभो!*
*मृत्युञ्जय मृडानीश रक्ष मां शरणागतम्।।*
2
*चिन्तानां यः समस्तानां चिन्तामणिर्विदारकः।*
*विघ्नभीतिविनाशाय हेरम्बन्तं प्रणौम्यहम्।।*
3
*हरसिद्धिर्हरेद्बाधाः, सिद्धपीठस्थमातृका।*
*कार्याणि साधयेत्साधु, शिवतत्त्वावबोधिका।।*
4
*उज्जयिन्या महारक्षिन्!भक्तप! कालभैरव!*
*शिवरूप! शिवादूत! रक्ष रक्ष महाबल!!*
5
*गढकालि महाशक्ते! भक्ताभीष्टफलप्रदे!*
*काव्यम्मे रुचिरं देहि, काव्यकौतुककारिके!!*
6
*अवन्तिकाधराजात! भौमनाथ नमोस्तु ते।*
*मङ्गलदोषहारिन् हे मङ्गलं विदधीत मे।।*
7
*कृतनतिः प्रतिष्ठेहं, बीकानेराय सम्प्रति।*
*आगच्छेयं पुनःपादौ, कुर्युर्मयि कृपा तथा।।*
*डॉ.महावीरप्रसादसारस्वतः, बीकानेरम्।*
No comments:
Post a Comment