*श्रीरामायणकथा, अयोध्याकाण्डम्।*
(ऊनविंशतितमो भागः)
श्रवणकुमारस्य कथा।
महाराजः दशरथः अवदत् कौशल्ये! इयं घटना मम विवाहात् पूर्वं घटिता अवर्तत। एकदा सन्ध्यावेलायाम् अकस्मात् अहं धनुर्बाणैः सज्जः भूत्वा रथम् आरुह्य मृगयार्थम् अगच्छम्। यदा अहं सरयूनद्याः तटं रथं नीत्वा अगच्छं तदा एवं शब्दम् अशृणवं यद् गजः बृंहति स्म। गजस्य शब्दं श्रुत्वा तं गजं हन्तुम् अहं तीक्ष्णं शब्दभेदिबाणम् अक्षिपम्।
बाणः गत्वा यदा लक्ष्यम् अभिनत् तदा जले पततः कस्यचन मनुष्यस्य मुखात् एवं वचनानि निस्सरन्ति स्म- आह! अहं म्रिये! मां निरपराधिनं कः अहन्? हे पितः! हे मातः! मम मृत्योः परं जलेन विना पिपासया भवतोः अपि मृत्युः भविष्यति। न जाने कः पापी बाणं क्षिप्त्वा मां पितरौ च अहन्।
तस्मात् मया ज्ञातं यत् सः शब्दः गजस्य न अपितु जले निमज्जितस्य घटस्य शब्दः आसीत्।
तानि वचनानि श्रुत्वा मम हस्तौ कम्पेते स्म, हस्तात् च धनुः भूमौ अपतत्। अहं धावित्वा तत्र अगच्छं यत्र सः मनुष्यः आसीत्। तत्र गत्वा अहम् अपश्यं यत् कश्चन वनवासी युवकः रक्तरञ्जितः भूमौ पतितः आसीत्, तस्य समीपे च एकः घटः जले पतितः आसीत्।
मां दृष्ट्वा सः क्रुद्धस्वरेण अवदत् राजन्! मम कः अपराधः आसीत् यस्मात् भवान् मह्यं मृत्युदण्डम् अददात्? किम् अयमेव मम अपराधः यदहं मम पिपासितयोः वृद्धपित्रोः कृते जलं नेतुम् आगच्छम्? यदि भवतः हृदये किञ्चिदपि दया स्यात् तर्हि मम पितृभ्यां जलं पाययतु यौ अनतिदूरे मम प्रतीक्षां कुरुतः।
परन्तु आदौ भवान् मम वक्षःस्थलात् बाणं निष्कासयतु यस्य कारणात् अहं महतीं पीडाम् अनुभवामि। यद्यपि अहं वनवासी अस्मि तथापि ब्राह्मणः नास्मि। मम पिता वैश्यः अस्ति, माता च शूद्रा अस्ति। अतः मम मृत्युना भवतः ब्रह्महत्यायाः पापं न भवेत्।
अतः हे कौशल्ये! यदा अहं तस्य वक्षःस्थलात् बाणं निष्कासयितुं प्रयत्नम् अकरवं तदा सः प्राणान् अत्यजत्। तस्मात् कर्मणः मम हृदयं पश्चात्तापेन विदीर्णम् अभवत्।
घटे जलं पूरयित्वा अहं तस्य पित्रोः समीपम् अगच्छम्। तत्र गत्वा अपश्यं यत् तौ उभावपि अत्यन्तं दुर्बलौ नेत्रहीनौ च आस्ताम्।
*प्रदीपः!*
No comments:
Post a Comment