Thursday, March 30, 2023

Rama - Sanskrit poem

श्रीरामाय नमः
०००००००००
श्रीरामं रामरामं रघुकुलरमणं जूटभारेण रम्यं
रामाताराय वीरं रणरसनिरतं राष्ट्ररीतौ सुरात्रम्।
रावेयं रोषरिक्तं रजनिचरहरं रावणप्राणरिष्टं
राद्धं रामायणेशं रिपुहरणरतं तं भजे राजराजम्।।
                     (व्रजकिशोरः)

No comments:

Post a Comment