*श्रीरामायणकथा, बालकाण्डम्।*
(चतुर्थो भागः)
कामदेवस्य आश्रमः।
परेद्यवि ब्राह्ममुहूर्त्ते ऋषिः विश्वामित्रः निद्रात्यागं कृत्वा तृणशय्यायां शयनं कुर्वाणौ रामलक्ष्मणौ शयनात् उत्थाप्य अवदत् हे रामलक्ष्मणौ! प्रातः अभूत् अतः शीघ्रं स्नानादिकं समाप्य सन्ध्यावन्दनादिकं समाप्य आगच्छतम्।
भास्करः यथा अन्धकारं नाशयित्वा सर्वत्र प्रकाशं प्रसारयति तथैव त्वयापि स्वेन पराक्रमेण राक्षसान् हत्वा सर्वत्र धर्मस्थापना करणीया।
गुरोः आज्ञां प्राप्य तौ उभावपि शीघ्रं स्नानादिकं नित्यकर्म च समाप्य ऋषिणा सह गङ्गायाः तटं प्रति अगच्छताम्।
सरयूगङ्गयोः सङ्गमः यत्र ऋषि-मुनीनां तपस्विनां च सुन्दराः आश्रमाः निर्मिताः आसन् तत्र ते अगच्छन्।
तेषु कञ्चन अतीव सुन्दरम् आश्रमं दृष्ट्वा रामः गुरुं विश्वामित्रम् अपृच्छत् हे गुरुदेव! अतीव सुन्दरोऽयम् आश्रमः कस्य महर्षेः निवासस्थानं विद्यते?
रामे प्रश्ने कृते ऋषिः विश्वामित्रः अवदत् हे राम! अयं कश्चन विशेषः आश्रमः विद्यते।
पुराकाले कैलाशपतिः महादेवः अत्र घोरतपस्याम् अकरोत्। सम्पूर्णविश्वं तस्य तपस्यां दृष्ट्वा विचलितम् अभवत्।
महादेवस्य तादृशीं तपस्यां दृष्ट्वा देवराजः इन्द्रः अत्यन्तं भीतः सन् तस्य तपस्यां खण्डयितुं निश्चयम् अकरोत्।
तत्कार्याय सः कामदेवं नियुक्तम् अकरोत्। भगवति शिवे कामदेवः बहुवारं बाणान् अक्षिपत् यस्मात् भगवतः शिवस्य तपस्यायां बाधा अपतत्। क्रुद्धः सन् महादेवः तदा तस्य तृतीयनेत्रम् उन्मील्य तम् अज्वलयत्।
सः देवः इति कारणतः तस्य मृत्युः न अभवत्, प्रत्युत तस्य केवलं शरीरं नष्टम् अभवत्।
एवं प्रकारेण सः अङ्गरहितः अभवत् इत्यनेन तस्य नाम अनङ्गः अभवत्, एतस्य क्षेत्रस्य नाम च अङ्गदेशः अभवत्।
आश्रमोऽयं भगवतः शिवस्य अस्ति किन्तु भगवान् शिवः कामदेवं ज्वलयित्वा भस्मसात् अकरोत् इति कारणतः आश्रमोऽयं कामदेवस्यापि कथ्यते।
गुरोः विश्वामित्रस्य आदेशानुसारं तत्रैव सर्वे रात्रौ विश्रमं कर्तुं निश्चयम् अकुर्वन्। रामः लक्ष्मणः च द्वौ भ्रातरौ वनात् फलानि आनीय महर्षिणे अदत्ताम्। महर्षिणा सह च तौ उभावपि भ्रातरौ प्रसादग्रहणम् अकुरुताम्।
तत्पश्चात् स्नानादिकं नित्यकर्म समाप्य सन्ध्यावन्दनादिकं कृत्वा रामः लक्ष्मणः च गुरोः विश्वामित्रस्य मुखात् बहुविधाः कथाः धार्मिकप्रवचनं च अशृणुताम्।
अन्ते च गुरोः यथोचितसेवां कृत्वा गुरोः आज्ञया तौ परम-पवित्र-गायत्रीमन्त्रस्य जपं कृत्वा तृणशय्यायाम् अशयाताम्।
*-प्रदीपः!*
No comments:
Post a Comment