*श्रीरामायणकथा, बालकाण्डम्।*
(नवमो भागः)
धनुर्यज्ञं प्रति प्रस्थानम्। द्वितीया कथा।
रामः एतानि सुन्दराणि दृश्यानि कुतूहलेन पश्यति स्म। रामः एवं प्रकारेण सर्वं कुतुहलेन पश्यति इति दृष्ट्वा गुरुः विश्वामित्रः तम् अपृच्छत् वत्स! एतावता ध्यानेन त्वं किं पश्यसि? रामः अवदत् गुरुदेव! अहं गङ्गायाः एतद् अद्भुतं दृश्यं पश्यामि। एतस्याः परमपावनगङ्गायाः दर्शनमात्रेण मम हृदये अपूर्वशान्तिः भवति।
हे भगवन्! अहं भवतः श्रीमुखात् श्रोतुम् इच्छामि यद् एतस्याः कलुषहारिण्याः पवित्रगङ्गायाः उत्पत्तिः कथम् अभवत्!
रामस्य प्रश्नं श्रुत्वा ऋषिः विश्वामित्रः अवदत् हे राम! अनेकप्रकारकष्टस्य तापस्य च निवारणं कुर्वत्याः गङ्गायाः कथा अत्यन्तं मनोरञ्जका रोचका च विद्यते। अहं युष्मान् सर्वान् गङ्गायाः कथां श्रावयामि।
एवं प्रकारेण ऋषिः विश्वामित्रः गङ्गायाः कथाश्रावणम् आरभत।
पर्वतराजस्य हिमालयस्य द्वे रूपवत्यौ सर्वगुणसम्पन्ने कन्ये आस्ताम्। तयोः कन्ययोः माता सुमेरुपर्वतस्य पुत्री मैना आसीत्।
ज्येष्ठकन्यायाः नाम गङ्गा, कनिष्ठकन्यायाः च नाम उमा आस्ताम्।।
गङ्गा अत्यन्तं प्रभावशालिनी असाधारणा दैवीगुणसम्पन्ना आसीत्। तस्याः असाधारणां प्रतिभां दृष्ट्वा देवाः अत्यन्तं प्रभाविताः अभवन्। विश्वकल्याणय च पर्वतराजं हिमालयं याचित्वा तां स्वर्गम् अनयन्।
पर्वतराजस्य द्वितीया कन्या उमा महती तपस्विनी आसीत्। सा कठोरतपस्यां कृत्वा भगवन्तं शिवं पतिरूपेण प्राप्नोत्।
तत्क्षणं हि रामः अपृच्छत् भगवन्! देवाः तु गङ्गां स्वर्गलोकम् अनयन्, परन्तु पुनः सा पृथिव्यां कथम् अवतरिता अभवत्? गङ्गां च त्रिपथगा किमर्थम् उच्यते?
रामस्य प्रश्नस्य उत्तरं प्रयच्छन् ऋषिः विश्वामित्रः अवदत् हे राम! सुरलोके विचरणं कुर्वत्या गङ्गया सह उमायाः मेलनम् अभवत्। गङ्गा उमाम् अवदत् - आबहुभ्यः दिनेभ्यः अहं सुरलोके विचरणं करोमि। मम इच्छा अस्ति यद् मम मातृभूम्यां पृथिव्यां विचरणं कुर्याम्। उमा तदा गङ्गायै आश्वासनं प्रदाय अवदत् यत् सा तत्कृते उपायं करिष्यति।
*-प्रदीप!*
No comments:
Post a Comment