*श्रीरामायणकथा बालकाण्डम्।*
(अष्टमो भागः)
सुबाहुमारीचयोः वधः।
परेद्यवि ब्राह्ममुहूर्त्ते उत्थाय स्नानादिकं नित्यकर्म समाप्य रामः लक्ष्मणेन सह गुरोः विश्वामित्रस्य समीपं गत्वा अवदत् गुरुदेव! कृपया मां वदतु यद् यज्ञे बाधाम् उत्पादयितुं राक्षसाः कदा आगच्छन्ति? एतदहं तदर्थं ज्ञातुमिच्छामि यत् कुत्रचिद् एवं न भवतु यद् अकस्मात् ते आगत्य उपद्रवं कुर्युः, तदा च आवां सज्जौ न भवेव।
दशरथस्य वीरपुत्रयोः एतद् उत्साहपूर्णं वचनं श्रुत्वा आश्रमे उपस्थिताः सर्वे ऋषिमुनयः अत्यन्तं प्रसन्नाः अभवन्, अवदन् च हे राजकुमारौ! यज्ञस्य रक्षायै युवाभ्यां षड् दिनानि यावद् अहर्निशं सतर्कता अवलम्बनीया।
एतानि षड् दिनानि यावद् ऋषिः विश्वामित्रः मौनेन स्थित्वा यज्ञं करिष्यति। अतः सः युवयोः कस्यापि प्रश्नस्य उत्तरं न दास्यति, यतः सः यज्ञस्य दीक्षां स्व्यकरोत्।
सूचनां प्राप्य तौ उभावपि भ्रातरौ अस्त्रशस्त्रैः सुसज्जितौ भूत्वा यज्ञस्य रक्षायै तत्परौ अभवताम्। पञ्च दिनानि यावद् निरन्तरं विश्रमं विना सतर्कतापूर्वकं तौ यज्ञस्य रक्षां कुर्वन्तौ आस्तां परन्तु एतानि पञ्च दिनानि यावत् यज्ञे कापि बाधा नापतत्।
षष्ठे दिने रामः लक्ष्मणम् अब्रवीत् भ्रातः सौमित्र! यज्ञस्य अद्य अन्तिमं दिनं वर्तते, उपद्रवं कर्तुं राक्षसाः अद्य निश्चयेन आगच्छेयुः। अतः अद्य विशेषरूपेण आवयोः सावधानता आवश्यकी। मनागपि असावधानता महर्षेः परिश्रमः आवयोः च परिश्रमः निष्फलः निरर्थकः च भवेत्।
रामः इत्थं लक्ष्मणं यदा प्रबोधयन् आसीत् तदा हि सर्वाः यज्ञसामग्रीः, चमसः, समिधा च इत्यादयः स्वयं हि कम्पमानाः अभवन्। मेघाः यथा गर्जन्ति तथा आकाशात् महान् ध्वनिः आगच्छति स्म।
तत्क्षणं हि सुबाहुमारीचयोः राक्षससेना रक्तं, मांसं, मज्जा, अस्थि च इत्यादीनां वर्षणम् आरभत। आकाशात् रक्तं पतति इति दृष्ट्वा रामः आकाशं प्रति अपश्यत्। आकाशे मायाविराक्षसान् दृष्ट्वा रामः लक्ष्मणम् अब्रवीत् लक्ष्मण! त्वं धनुषि शरसन्धानं कृत्वा सावधानः भव। अहं मानवास्त्रेण तान् महापापिनः शीघ्रं हि नाशयिष्यामि।
*-प्रदीप!*
No comments:
Post a Comment