Thursday, January 12, 2023

Srimad ramayanam in Sanskrit bAla kAndam part 6

*श्रीरामायणकथा, बालकाण्डम्।*
(षष्ठो भागः) 
अलभ्यास्त्राणां दानम्।

मार्गे कश्चित् सुरम्यः सरोवरः दृष्टः। सरोवरस्य तटे स्थित्वा ऋषिः विश्वामित्रः अवदत् हे राम! ताडकायाः वधं कृत्वा मानवकल्याणाय त्वं महत् कार्यम् अकरोः! अहं तव एतस्मिन् कार्ये, पराक्रमे, चातुर्ये च अत्यन्तं प्रसन्नोऽस्मि।  
अद्य अहं तुभ्यम् एवं दुर्लभानि अस्त्राणि ददामि येषां साहाय्येन त्वं देवः, राक्षसः, यक्षः च इत्येतान् सर्वान् पराजेतुं शक्नुयाः। तेषाम् अस्त्राणां नामानि क्रमशः दण्डचक्रम्, धर्मचक्रम्, कालचक्रम्, इन्द्रचक्रं च।

एतानि अस्त्राणि त्वं गृह्णीतात्।
एतेषाम् अस्त्राणां धारणात् परं सर्वमपि शत्रुं पराजेतुं शक्नुयाः।

एतान्यतिरिच्य अहं तुभ्यं विद्युता निर्मितं वज्रास्त्रम्, भगवतः शिवस्य शूलः, ब्रह्मशिरः, एषीकः अपिच सर्वेभ्यः अस्त्रेभ्यः अधिकं शक्तिशालि ब्रह्मास्त्रं च इत्यादीनि अस्त्राणि ददामि। 
एतानि सर्वाणि अस्त्राणि गृहीत्वा त्वं त्रिषु लोकेषु सर्वाधिकः शक्तिसम्पन्नः भविष्यसि। तव वीरतां दृष्ट्वा अहम् एतावान् प्रसन्नः अस्मि यद् मम सर्वाण्यपि अस्त्राणि तुभ्यं प्रदाय आत्मनि गौरवम् अनुभवामि।
एतैः सह नारायणास्त्र‌म्, आग्नेयास्त्रम्, वायव्यास्त्रम्, हयशिरास्त्रम् अपिच क्रौंचास्त्रमपि तुभ्यं प्रदास्यामि। 

अस्त्राण्यतिरिच्य अहं तुभ्यं कांश्चन पाशान् दास्यामि तेषु धर्मपाशः, कालपाशः वरुणपाशः च एते मुख्याः विद्यन्ते।
एतैः पाशैः शत्रून् बद्ध्वा त्वं तान् निष्क्रियान् कर्तुं शक्नुयाः। 
हे राम! कानिचन अस्त्राणि एवं सन्ति येषां प्रयोगम् असुराः कुर्वन्ति। नीतिः वदति यत् शत्रवः तेषां हि अस्त्रशस्त्रैः हन्तव्याः, अतः असुरैः प्रयुक्तानि अस्त्रशस्त्राणि तुभ्यं प्रदास्यामि।

कङ्कालः, मूसलः, घोरकपालः, किङ्कणी च इत्यादीनि अस्त्राणि अपि प्रदास्यामि। केषाञ्चन शस्त्राणां प्रयोगः विद्याधरेण क्रियते, तेषु प्रधानानि अस्त्राणि खड्गः, मोहनः, प्रस्वापनः, प्रशमनः, सौम्यः, वर्षणः, सन्तापनः, विलापनः, मादनास्त्रम्, गन्धर्वास्त्रम्, मानवास्त्रम्, पैशाचास्त्रम्, तामसः, अद्वितीयसौमनास्त्रं च इत्यादीनि अपि तुभ्यं प्रदास्यामि। मौसलास्त्रम्, सत्यास्त्रं च असुराणां मायामयास्त्रे स्तः। अपिच भगवतः सूर्यस्य प्रभास्त्रं यस्य दर्शनमात्रेण शत्रुः निस्तेजः भूत्वा नष्टः भवति। एतान्यपि त्वं गृहाण।  
*-प्रदीपः!*

No comments:

Post a Comment