*श्रीरामायणकथा, बालकाण्डम्।*
(पञ्चमो भागः)ताडकावधः। (द्वितीया कथा)
पत्युः मृत्योः प्रतिशोधं नेतुं ताडका अपि ऋषेः अगस्त्यस्य उपरि आक्रमणम् अकरोत्। तदा ऋषिः अगस्त्यः तस्यै शापं दत्त्वा तस्याः सौन्दर्यम् अनाशयत्। सा अत्यन्तं कुरूपा अभवत्।
स्वीयं कुरूपं शरीरं दृष्ट्वा पत्युः च मृत्योः प्रतिशोधं नेतुम् अगस्त्यमुनेः आश्रमं नष्टीकर्तुं संकल्पम् अकरोत्।
अतः हे राम! अहं त्वाम् आज्ञापयामि यत् त्वं ताड़कायाः वधं कुरु।
त्वामतिरिच्य अन्यः कोऽपि तां संहर्तुं न शक्नुयात्। त्वम् एवं चिन्तां मा कार्षीः यत् सा स्त्री अस्ति, कथं वा तस्याः वधं करिष्यामि इति। स्त्रियाः रूपेण सा महापापिनी वर्तते। पापिनी हन्यते चेत् पापं न भवति। समस्तं संशयं त्यक्त्वा मम आज्ञया त्वं तस्याः संहारं कुरु।
रामः अवदत् गुरुदेव! भवतः आज्ञा शिरोधार्या। समस्तमानवजातेः कल्याणाय अहम् अवश्यं ताडकां हनिष्यामि। एवमुक्त्वा हि रामः स्वधनुषः प्रत्यञ्चां कृष्ट्वा भयङ्करं टङ्कारम् अकरोत्। टङ्कारात् उत्पन्नं ध्वनिं श्रुत्वा वन्यप्राणिनः सर्वे भीताः सन्तः इतस्ततः धावन्ति स्म। वन्यप्राणिषु इत्थम् अप्रत्याशितम् आक्रोशं दृष्ट्वा ताडका अत्यन्तं कुपिता अभवत्।
धनुर्बाणैः सुसज्जितं रामं दृष्ट्वा सा एवं विचारम् अकरोत् यत् कश्चिद् अपरिचितः कुमारः मम साम्राज्ये आधिपत्यं स्थापयितुम् इच्छति। एवं विचिन्त्य सा क्रोधेन उन्मत्ता अभवत्।
रामस्य उपरि आक्रमणं कर्तुं सा तीव्रगत्या आकाशमार्गेण आगच्छति स्म। ताडकां दृष्ट्वा रामः लक्ष्मणम् अब्रवीत् हे सौमित्र! ताडवृक्षवद् तस्याः विशालदेहः, तस्याः मुखस्य विकरालरूपं च। सा राक्षसी कियती कुरूपा दृश्यते।
तस्याः मुखमण्डलं दृष्ट्वा एवं प्रतीयते यत् सा अत्यन्तं क्रूरा निरीहप्राणिनः हत्वा तेषां रक्तपानं कृत्वा सा अत्यन्तम् आनन्दम् अनुभवति।
त्वम् एकत्र सावधानः भूत्वा तिष्ठ, पश्य च अहं तां कथं यमलोकं प्रेषयेयम्।
विकरालदेहधारिणी ताडका स्वीयान् बृहद्दन्तान् दर्शयित्वा रामं लक्ष्मणं प्रति च आगच्छति स्म। रामः तां सम्मुखीकर्तुं पूर्वतः सज्जः आसीत्। यदा सा रामस्य समीपम् आगच्छत् तदा रामः तस्यां तीक्ष्णबाणम् क्षिप्त्वा तस्याः हृदयं छिन्नम् अकरोत्। तस्याः वक्षःस्थलात् उष्णम् उष्णं रक्तं प्रवहति स्म। तथापि सा पुनः तयोः उपरि आक्रमणं कर्तुं प्रयतते स्म। तत्क्षणं रामः पुनः एकं बाणम् अक्षिपत्। सः बाणः तस्याः वक्षःस्थलम् अभिनत्। तेन बाणेन सा अतीव पीडाम् अनुभवति स्म, चित्कारं कृत्वा च सा भूमौ अपतत्। तत्क्षणं च सा प्राणान् अत्यजत्।
रामस्य एतद् रणकौशलं ताडकायाः मृत्युं च दृष्ट्वा ऋषिः विश्वामित्रः अत्यन्तं प्रसन्नः अभवत्। तस्य मुखात् रामचन्द्राय आशीर्वचनं निर्गच्छति स्म।
गुरोः आज्ञया ते सर्वेपि तत्र रात्रियापनम् अकुर्वन्।
प्रातःकाले ते अपश्यन् यत् ताडकायः आतङ्कात् मुक्तिं प्राप्य सर्वे जन्तवः सन्तुष्टाः सन्तः इतस्ततः निर्भयेण सञ्चरन्ति।
किञ्चित् कालं यावत् ते तस्य वनस्य शोभां निरीक्ष्य स्नानपूजनादिकं समाप्य महर्षेः विश्वामित्रस्य आश्रमं प्रति अगच्छन्।
*-प्रदीपः!*
No comments:
Post a Comment