त्रिरङ्गि स्वातन्त्र्यम् - कविता
( काषायवर्णं लक्ष्यीकृत्य - )
म्लेच्छा आक्रमणेन छत्रपतिना,
मृत्योर्गृहं प्रेषिताः
आङ्ग्लास्ते हतकान्तयः प्रतिगता,
भीताश्च वीरेण ये ।
वन्दन्ते भुवने जना विजयिनं,
तद् भारतं भा रतम्
स्वातन्त्र्यमयि पञ्चसप्ततितमे,
वर्षेsजरं जायताम् ।।1।।
( धवलवर्णं लक्ष्यीकृत्य -)
स्वाधीनां प्रभुतां प्रदर्शयति यः,
केतुस्त्रिरंगी महान्
मध्येsसौ बुधधर्मचक्रसहितो,
राराजतेsहिंसया ।
नासत्यं जयतादिति प्र-वचनं,
राष्ट्रेsस्मदीये सदा
स्वातन्त्र्यमयि पञ्चसप्ततितमे,
वर्षेsमरं जायताम् ।।2।।
( हरितवर्णं लक्ष्यीकृत्य - )
देशोsयं जलपूरितः सुभवताद्,
धान्येन पूर्णस्तथा
सौख्यं पूर्णनिरामयं गुरु वयः,
प्राप्नोतु सर्वो जनः ।
मुक्ताः कर्मरता भवन्तु सफला-,
स्ते भारतीया जनाः,
स्वातन्त्र्यमयि पञ्चसप्ततितमे,
वर्षेsमृतं जायताम् ।।3।।
रचयिता - वसन्तकुमारो भट्टः,
पूर्वनिदेशकः, भाषा-साहित्य भवनम्, गुजरात विश्वविद्यालयः, कर्णावती 380009
Email- v.k.bhatt53@gmail.com
( काषायवर्णं लक्ष्यीकृत्य - )
म्लेच्छा आक्रमणेन छत्रपतिना,
मृत्योर्गृहं प्रेषिताः
आङ्ग्लास्ते हतकान्तयः प्रतिगता,
भीताश्च वीरेण ये ।
वन्दन्ते भुवने जना विजयिनं,
तद् भारतं भा रतम्
स्वातन्त्र्यमयि पञ्चसप्ततितमे,
वर्षेsजरं जायताम् ।।1।।
( धवलवर्णं लक्ष्यीकृत्य -)
स्वाधीनां प्रभुतां प्रदर्शयति यः,
केतुस्त्रिरंगी महान्
मध्येsसौ बुधधर्मचक्रसहितो,
राराजतेsहिंसया ।
नासत्यं जयतादिति प्र-वचनं,
राष्ट्रेsस्मदीये सदा
स्वातन्त्र्यमयि पञ्चसप्ततितमे,
वर्षेsमरं जायताम् ।।2।।
( हरितवर्णं लक्ष्यीकृत्य - )
देशोsयं जलपूरितः सुभवताद्,
धान्येन पूर्णस्तथा
सौख्यं पूर्णनिरामयं गुरु वयः,
प्राप्नोतु सर्वो जनः ।
मुक्ताः कर्मरता भवन्तु सफला-,
स्ते भारतीया जनाः,
स्वातन्त्र्यमयि पञ्चसप्ततितमे,
वर्षेsमृतं जायताम् ।।3।।
रचयिता - वसन्तकुमारो भट्टः,
पूर्वनिदेशकः, भाषा-साहित्य भवनम्, गुजरात विश्वविद्यालयः, कर्णावती 380009
Email- v.k.bhatt53@gmail.com
No comments:
Post a Comment