Wednesday, August 24, 2022

national anthem in sanskrit

गुणगणमण्डित-यदुवरलसिता
राजति भारतमाता ।
नीतिबोधकपरात्परगीता
बोधकयोगिजनाप्ता ॥१॥


रम्यसुरालय-सरिदाक्रीडैः
भव्यसुललितनिजाङ्गा ।
अभिमतसिद्धा धन्या
शुभफलवृद्धिसुमान्या
जीयाद् भारतशोभा ॥२॥


अनुदिन-मङ्गलदायक-दयया
भारतमाता जयतात् ।
जयतात्, जयतात्, जयतात्
निजजनगणमवतात्

भारतमाता जयतात् ॥३॥

- श्री सीतारामाचार्य:

No comments:

Post a Comment