Tuesday, May 31, 2022

dont argue with an idiot - Sanskrit story

*हरिणगर्दभयोः मध्ये विवादः।*

एकदा हरिणगर्दभयोः मध्ये तर्कः अभवत्। 
तृणानि हरितानि भवन्ति इति हरिणः वदति स्म परन्तु गर्दभः वदति स्म यत् तृणानि रक्तवर्णानि भवन्ति इति। 

एतस्य समाधानाय तौ उभावपि वनस्य राज्ञः सिंहस्य समीपम् अगच्छताम्, सर्वं वृत्तान्तं च अश्रावयताम्। 

राजा सिंहः सर्वं वृत्तान्तं श्रुत्वा हरिणः दोषी इति कृत्वा एकवर्षं यावत् तस्य कारागारे वासः भवतु इति निर्णयम् अकरोत्।

राज्ञः सिंहस्य निर्णयं श्रुत्वा वनस्य सर्वे पशवः आश्चर्यचकिताः अभवन्, 
तं च अपृच्छन् राजन्! अत्र तु हरिणः निर्दोषी चेदपि तस्य शास्तिः किमर्थम् अभवत्? 

हरिणः गर्दभेन सह तर्कम् अकरोत् तदर्थं हि तस्य शास्तिरभवत्। 
यूयं जानीथ एव यद् गर्दभः नाम मूढः। अतः तेन सह कदापि केनापि तर्कः न करणीयः। 
*-प्रदीपः!*

No comments:

Post a Comment