नमो नमः 🙏
1...नीलः मेघः चलति l
कीदृशः मेघः चलति ?
विशेषणम् - नीलः
विशेष्यम् - मेघः
2... उन्नतः नारिकेलवृक्षः अस्ति l
कीदृशः नारिकेलवृक्षः अस्ति ?
विशेषणम् - उन्नतः
विशेष्यम् - नारिकेलवृक्षः
3...सा चतुरा बालिका l
सा कीदृशी बालिका ?
विशेषणम् - चतुरा
विशेष्यम् - बालिका
4... सुन्दरं नगरं भारते अस्ति l
कीदृशं नगरं भारते अस्ति ?
विशेषणम् - सुन्दरम्
विशेष्यम् - नगरम्
5...कातरा स्त्री वेपते l
कीदृशी स्त्री वेपते ?
विशेषणम् - कातरा
विशेष्यम् - स्त्री
6...सा मलिनं वस्त्रं प्रक्षालयति l
सा कीदृशं वस्त्रं प्रक्षालयति ?
विशेषणम् - मलिनम्
विशेष्यम् - वस्त्रम्
7...वृक्षे उत्तमं फलम् अस्ति l
...वृक्षे कीदृशं फलम् अस्ति ?
विशेषणम् - उत्तमम्
विशेष्यम् - फलम्
8...उदारः पुरुषः देशे विरलः l
कीदृशः पुरुषः देशे विरलः ?
विशेषणम् - उदारः
विशेष्यम् - पुरुषः
9... विधेयः छात्रः अत्र अस्ति l
कीदृशः छात्रः अत्र अस्ति ?
विशेषणम् - विधेयः
विशेष्यम् - छात्रः
10...अम्ब ! एषा उत्तमा शाटिका अस्ति l
अम्ब ! एषा कीदृशी शाटिका अस्ति ?
विशेषणम् - उत्तमा
विशेष्यम् - शाटिका
11...चतुरः बालकः सर्वदा चिन्तयति l
कीदृशः बालकः सर्वदा चिन्तयति ?
विशेषणम् - चतुरः
विशेष्यम् - बालकः
12...स्यूते समीचीना लेखनी अस्ति l
स्यूते कीदृशी लेखनी अस्ति ?
विशेषणम् - समीचीना
विशेष्यम् - लेखनी
13... भगवद्गीतायाम् उत्तमः विचारः अस्ति l
भगवद्गीतायाम् कीदृशः विचारः अस्ति ?
विशेषणम् - उत्तमः
विशेष्यम् - विचारः
14...सुन्दरी बालिका नृत्यति l
कीदृशी बालिका नृत्यति ?
विशेषणम् - सुन्दरी
विशेष्यम् - बालिका
15...पण्डितः शिक्षकः सम्यक् पाठयति l
कीदृशः शिक्षकः सम्यक् पाठयति ?
विशेषणम् - पण्डितः
विशेष्यम् - शिक्षकः
16...सुन्दराः तरुणाः तत्र तिष्ठन्ति l
कीदृशाः तरुणाः तत्र तिष्ठन्ति ?
विशेषणम् - सुन्दराः
विशेष्यम् - तरुणाः
17...चतुराः बालकाः नदीं तरन्ति l
कीदृशाः बालकाः नदीं तरन्ति ?
विशेषणम् - चतुराः
विशेष्यम् - बालकाः
18...क्रूराः मृगाः अरण्ये विहरन्ति l
कीदृशाः मृगाः अरण्ये विहरन्ति ?
विशेषणम् - क्रूराः
विशेष्यम् - मृगाः
19...वृक्षे उत्तमानि पुष्पाणि विकसन्ति l
वृक्षे कीदृशानि पुष्पाणि विकसन्ति ?
विशेषणम् - उत्तमानि
विशेष्यम् - पुष्पाणि
20...दुष्टाः चोराः आरक्षकात् बिभ्यति l
कीदृशाः चोराः आरक्षकात् बिभ्यति ?
विशेषणम् - दुष्टाः
विशेष्यम् - चोराः
21...दीर्घाः लताः वायुना कम्पन्ते l
कीदृशाः लताः वायुना कम्पन्ते ?
विशेषणम् - दीर्घाः
विशेष्यम् - लताः
22... उद्याने उत्तमानि सस्यानि वर्धन्ते l
उद्याने कीदृशानि सस्यानि वर्धन्ते ?
विशेषणम् - उत्तमानि
विशेष्यम् - सस्यानि
23...जीवने अनेकानि कष्टानि भवन्ति l
जीवने कीदृशानि कष्टानि भवन्ति ?
विशेषणम् - अनेकानि
विशेष्यम् - कष्टानि
24...ग्रन्थालये समीचीनौ ग्रन्थौ स्तः l
ग्रन्थालये कीदृशौ ग्रन्थौ स्तः ?
विशेषणम् - समीचीनौ
विशेष्यम् - ग्रन्थौ
25...बुद्धिमत्यौ बालिके सम्यक् पठतः l
कीदृश्यौ बालिके सम्यक् पठतः ?
विशेषणम् - बुद्धिमत्यौ
विशेषम् - बालिके
*****
धन्यवादः 🙏
No comments:
Post a Comment