*महाभारतम्, युद्धपर्व।*
महाभारतस्य युद्धारम्भात् प्राक्, अर्थात् पूर्वसन्ध्यायां पाण्डवानां माता कुन्ती विषण्णमनसा उपाविशत्।
महामन्त्री विदुरः तदा तत्र आगत्य ताम् अवदत् हे भ्रातृजाये! भवती अपि पाण्डवानां विजयाय भगवन्तं शिवं प्रार्थयतु।
हे विदुर! पुत्रस्य दुर्योधनस्य पराजयं कथमहं कमितुं शक्नवानि? अहम् एवं कर्तुं न शक्नोमि विदुर!
हे भ्रातृजाये! अस्मिन् युद्धे कश्चिदपि निष्पक्षः भवितुं नार्हति। पाण्डवानां विजयः भवतु इत्यहं कामये, यतः धर्मः तैः सह अस्ति। यत्र धर्मः तत्र भगवान् श्रीकृष्णः। अतः सर्वेऽपि अस्मिन् युद्धे भागं गृह्णीयुः। भवती पाण्डवानां हिताय यदि प्रार्थनां न कुर्यात् तर्हि हस्तिनापुरस्य विजयाय भगवन्तं प्रार्थयतु।
गङ्गापुत्रः भीष्मः, आचार्यः द्रोणः, कुलगुरुः कृपाचार्यः च तैः सह भगवान् श्रीकृष्णः, पाण्डवाः, पाण्डवानां सेनापतिः धृष्टद्युम्नः, शिखण्डी च तेषां मेलनम्।
गङ्गापुत्रः भीष्मः - हे पाण्डवसेनापतिधृष्टद्युम्न! कौरवाणां शिबिरे भवतां सर्वेषां स्वागतम्। भवन्तः सर्वे स्वीयं स्वीयं स्थानं गृह्णन्तु।
शिखण्डी - अहमपि स्थानं गृह्णानि किं गङ्गापुत्र?
भीष्मः- अहम् अतिथेः अपमानं कर्तुं न शक्नोमि, किन्तु इयं सभा पुरुषाणां वर्तते राजकुमार शिखण्डि।
शिखण्डी - अहं जानामि गङ्गापुत्र। भवादृशस्य महापुरुषस्य दर्शनार्थं ह्यहम् आगतवान्। आज्ञा अस्ति?
भीष्मः- हसन् अवदत्, अस्तु अस्तु, उपविशतु।
महाराजः द्रुपदः- कथमस्ति मित्र द्रोण?
द्रोणाचार्यः- भगवतः शिवस्य कृपया अहं कुशली एवास्मि मित्र द्रुपद!
द्रुपदपुत्रः धृष्टद्युम्नः - मम पितुः उपरि भगवतः शिवस्य कृपा नास्ति किम् आचार्य?
आचार्यः द्रोणः किमपि न अवदत्, तूष्णीमेवासीत्।
इत्येवं पाण्डवाः सर्वे गङ्गापुत्रः भीष्मः, द्रोणः, कुलगुरुः कृपाचार्यः, च तान् प्रणम्य तेभ्यः आशीर्वादान् स्व्यकुर्वन्।
भीष्मः - अहं मन्ये यद् वयम् अत्र व्यक्तिगतविचाराणाम् आदानप्रदानाय सम्मिलिताः न स्मः।
महत् दुर्भाग्यं यद् इदानीम् अस्माकं पार्श्वे रणभूमिं विहाय अन्यः विकल्पः कश्चिदपि नास्ति। अतः युद्धात् पूर्वं वयं युद्धस्य नियमान् कुर्याम!
श्रीकृष्णः - हे कुरुशिरोमणि! वयम् अत्र किमपि निश्चितं कर्तुं न आगतवन्तः! कौरवाः भवतः पौत्राः, अपिच पाण्डवाः अपि। अतः भवान् यान् नियमान् करिष्यति तानेव नियमान् पालयित्वा पाण्डवाः युद्धं करिष्यन्ति।
भीष्मः - ममोपरि एतस्य भारं न स्थापय माधव! ममैव शिबिरे बहवः सन्ति ये चिन्तयन्ति यद् अहं पाण्डवानां पक्षे अस्मि।
परन्तु त्वं तु जानासि माधव यद् मादृशाः बहवः वृद्धजनाः केवलं हस्तिनापुरस्य पक्षे सन्ति।
श्रीकृष्णः - भवान् कुरुश्रेष्ठः अस्ति, भवान् शूरवीरः अस्ति, अपिच भवान् कौरवसेनायाः प्रधानसेनापतिः अप्यस्ति। एवञ्च प्रत्येकं दृष्ट्या अस्माकं कृते भवान् आदरणीयोऽस्ति।
तदर्थं हि अस्य युद्धस्य नियमान् भवानेव कुर्यात्। एतस्य दायित्वं भवतः एवास्ति।
भीष्मः - सत्यं तु एतदस्ति वासुदेव, यत् प्रत्येकं युद्धस्य एक एव नियमः यद् युद्धं धर्मानुसारं भवेत्। (क्रमशः)
*प्रदीपः!*
No comments:
Post a Comment