Wednesday, December 29, 2021

Bad intellect will cause destruction - Sanskrit story

*दुर्बुद्धिः विनश्यति*

अस्ति मगधदेशे फुल्लोत्पलनाम सरः । तत्र संकटविकटनामकौ हंसौ निवसतः । कम्बुग्रीवनामा तयोः मित्रम् एकः कूर्मः अपि तत्रैव प्रतिवसति स्म।

अथ एकदा धीवराः तत्र आगच्छन् अकथयन् च-वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः । एतत् श्रुत्वा कूर्मः अवदत् - "मित्रे! किं युवाभ्यां धीवराणां वार्ता श्रुता? अधुना किम् अहं करोमि ? " हंसौ अवदताम्- "प्रातः यद् उचितं तत्कर्त्तव्यम्।" कूर्मः अवदत्- "मैवम् । तद् यथाऽहम् अन्यं हृदं गच्छामि तथा कुरुतम्।" हंसौ अवदताम्- "आवां किं करवाव?" कूर्मः अवदत् - "अहं भवद्भ्यां सह आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि। "

हंसौ अवदताम्- "अत्र कः उपायः ? " कच्छपः वदति- "युवां काष्ठदण्डम् एकं चञ्च्वा धारयताम् । अहं काष्ठदण्डमध्ये अवलम्ब्य युवाभ्यां पक्षबलेन सुखेन गमिष्यामि।" हंसौ अकथयताम्- "सम्भवति एषः उपायः । किन्तु अत्र एकः अपायो पि वर्तते । आवाभ्यां नीयमानं त्वामवलोक्य जनाः किञ्चिद् वदिष्यन्ति एव यदि त्वमुत्तरं दास्यसि तदा तव मरणं निश्चितम् । अतः त्वम् अत्रैव वस।" तत् श्रुत्वा क्रुद्धः कूर्मः अवदत् - "किमहं मूर्खः ? उत्तरं न दास्यामि । किञ्चिदपि न वदिष्यामि।" अतः अहं यथा उक्तवान् तथा युवां कुरुतम् ।

एवं कृते काष्ठदण्डे लम्बमानं कूर्मं दृष्ट्वा गोपालकाः पश्चाद् अधावन् अवदन् च- "हंहो! महदाश्चर्यम् । हंसाभ्यां सह कूर्मोऽपि उड्डीयते।" कश्चिद् वदति- "यद्ययं कूर्मः कथमपि निपतति तदा अत्रैव पक्त्वा खादिष्यामि।" अपरः अवदत् "सरस्तीरे दग्ध्वा खादिष्यामि । |अन्यः अकथयत्- "गृहं नीत्वा भक्षयिष्यामि" इति ।

तेषां तद् वचनं श्रुत्वा कूर्मः मित्रयोः दत्तं वचनं विस्मृत्य कोपेन अवदत् - "यूयं भस्म खादत" इति वदन्नेव कूर्मः आकाशात् पतितः गोपालकैः मारितश्च । 

अतएवोक्तम्

सुहृदां हितकामानां वाक्यं यो नाभिनन्दति । 
स कूर्म इव दुर्बुद्धिः काष्ठाद् भ्रष्टो विनश्यति ॥

No comments:

Post a Comment