Tuesday, December 7, 2021

Anandhyayana - Veda, jyotisha , vedanga

नमो विद्वद्भ्यः
 
 
 
*अनध्यायाः - आकालिकाः*
 
 
 
*कृष्णयजुर्वेदः ( तैत्तिरीयारण्यकम् - सायणभाष्यम् ) - ऐतरेयारण्यकम् -
पूर्वमीमांसा - महाभाष्यम् - मनुस्मृतिः - बौधायनस्मृतिः - गौतमस्मृतिः -
औशनसस्मृतिः - वसिष्ठस्मृतिः - आपस्तंबस्मृतिः -याज्ञवल्क्यस्मृतिः -
आपस्तंबश्रौतसूत्रम् - - नृसिंहपुराणम् - कूर्मपुराणम् - स्मृत्यर्थचन्द्रिका
- स्मृत्यर्थसारः – निर्णयसिन्धुः - ज्योतिषम् - रामायणम्*
 
 
 
One of my व्याकरणगुरु-s used to follow त्रयोदशी (both) as an अनध्याय as
Panini was killed (by a lion - राहु was मारक ) on the same तिथि ।
 
'अनध्यायेष्वङ्गान्यधीयीत' – so one has to study वेदाङ्ग-s during अनध्याय days.
No अनध्याय for ज्योतिषम् etc .
 
अनध्यायस्तु नाङ्गेषु नेतिहासपुराणयोः ।
 
न धर्मशास्त्रेष्वन्येषु पर्वण्येतानि वर्जयेत् ॥
 
*निर्णयसिन्धुः , कूर्मपुराणम् 14-82,83,औशनसस्मृतिः*
 
पर्वणि = पूर्णिमा and अमावास्या ।
 
 
 
I follow तैत्तिरीयारारण्यकम् - महाभाष्यम् – रामायणम् – मनुस्मृति --- presently
teaching शतरुद्रीयम् ( नमकम् + चमकम् ) to my दौहित्र (daughter's son, कूचि
सूर्यांशुशर्मा -11years) – already learnt गणपतिपूजा – पुण्याहवाचनम् –
श्रीसूक्तम् – पुरुषसूक्तम् – लघुमन्त्रपुष्पम् – गुरुमन्त्रपुष्पम् –
नीराजनम् ।
 
So we follow – both प्रतिपत् – अष्टमी – चतुर्दशी –- पूर्णिमा – अमावास्या –
आशौचम् (जात-मृत) – वर्ष – मेघगर्जन – विद्युत् – महावायु – ग्रहणम् ----
य एवं विद्वान् मेघे वर्षति विद्योतमाने स्तनयत्यवस्फूर्जति पवमाने वायौ
अमावास्यायां स्वाध्यायमधीते तप एव तत्तप्यते तपो हि स्वाध्यायः ( *तै आ*
*2-14*)|
 
 
 
There are only two अनध्याय-s for ब्रह्मयज्ञ as per *तै आ **2-16* –
 
तस्य वा एतस्य यज्ञस्य द्वावनध्यायौ यदात्मा'शुचिर्यद्देशः ।
 
Here the term अशुचिः , following काकाक्षिन्याय , is applicable to both आत्मा
and देश । आत्मा is शरीरम् – जाताशौचम् and मृताशौचम् ।
 
देशः – प्रदेशः अशुचिः मूत्रादिना ।
 
एतस्य यज्ञस्य ब्रह्मयज्ञस्य इत्यर्थः ।
 
 
 
अकाले भवः आकालिकः ( कालेभ्यो भववत् पा 4-2-34 , कालाट्ठञ् 4-3-11,
ठस्येकः 7-3-50)

 
*मिताक्षरा – गौतमधर्मसूत्रम्* (2-7-22) (alsoयाज्ञ स्मृति 1-147) (मनु 4-103
to 105) –
 
आकालिका निर्घातभूमिकम्पराहुदर्शनोल्काः - सू
 
'यस्मिन्काले एते भवन्ति परेद्युः तत्पर्यन्तं काल आकालः । तत्संबद्ध आकालिकः।
 
24 hours from starting भूकम्प etc is आकालिकानध्यायः ।
 
 
 
*महाभाष्यम्* (मतौ छः सूक्तसाम्नोः 5-2-59 ) –
 
देशः –देशः खल्वप्याम्नाये नियतः । श्मशाने नाध्येयम् , चतुष्पथे नाध्येयम्
इति ।
 
कालः – कालः खल्वप्याम्नाये नियतः। नामावास्यायामधीयीत , न चतुर्दश्याम् ।
 
Now there is a question – Haradattamisra in *मिताक्षरा on गौतमधर्मसूत्रम् *
*2-7-36* makes two comments –
 
( अमावास्यायां च 2-7-35 अमावास्यायाम् अहोरात्रम् अनध्यायः )
 
द्व्यहं वा – सू
 
'तदहः पूर्वेद्युश्च द्व्यहम् अनध्यायः । शुक्लचतुर्दश्यां त्वनध्यायस्य
मूलान्तरं मृग्यम् ' ।
 
*एवं प्रतिपत्सु च* ।
 
So there is no प्रमाणम् to show that प्रतिपत् (both) is अनध्याय ।
 
 
 
Here is a verse from *रामायणम् ( सुन्दरकाण्डः **59-32)* –
 
सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्शिता ।
 
प्रतिपत्पाठशीलस्य विद्येव तनुतां गता ॥
 
May be , this is the प्रमाणाम् those who follow प्रतिपत् as अनध्याय – in
fact , this line also does not clearly say that प्रतिपत् is अनध्याय ।
 
Who is पाठशील ? May be an अर्थवाद – and as such Haradatta did not give much
value to this .
 
 
 
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी ।
 
ब्रह्माष्टकापौर्णमास्यौ तस्मात्ताः परिवर्जयेत् ॥ *मनु **4-114*
 
 
 
This is also an अर्थवाद ( not to be taken literally ) ।
 
 
 
The subject is too vast .
 
 
 
Here अनध्याय means ग्रहणानध्याय ( *पार्थसारथिमिश्रः , सोमनाथः ,
सायणाचार्यः*) , i e for learning वेद only .
 
Other kind of अध्ययनम् ( ब्रह्मयज्ञः , कर्मकालः ) would continue –
clarifies Jaimini in *पूर्वमीमांसादर्शनम्* ( अध्या 12 पा 3 अधि 7 सू 18,19 –
 
मन्त्राणां कर्मसंयोगात् स्वधर्मेण प्रयोगः स्याद्धर्मस्य तन्निमित्तत्वात् –
*पूवपक्षः*।
 
विद्यां प्रति विधानाद्वा सर्वकालं प्रयोगः स्यात् कर्मार्थत्वात् प्रयोगस्य –
*सिद्धान्तः*।
 
( कर्मकाले अनध्याये'पि मन्त्राणां प्रयोगाधिकरणम् )
 
If कर्मकल is also included विधि-s such as *'**दर्शपूर्णमासाभ्यां
स्वर्गकामो यजेत'*are affected—
 
 
श्रुतिस्मृत्योर्विरोधे तु श्रुतिरेव गरीयसी – *जाबालः* ।
 
*आपस्तंबश्रौतसूत्रम्* ( 24-1-37) states the same –
 
स्वाध्याये'नध्यायो मन्त्राणां न कर्मण्यर्थान्तरत्वात् ।
 
*आपस्तंबधर्मसूत्रम्* (1-4-12-9) (also मनु 2-105) –
 
विद्यां प्रत्यनध्यायः श्रूयते न कर्मयोगे मन्त्राणाम् ।
 
*स्मृतिचन्द्रिका * (शौनकः) –
 
नित्ये जपे च काम्ये च क्रतौ पारायणे'पि च ।
 
नानध्यायो'स्ति वेदानां ग्रहणे ग्राहणे स्मृतः ॥
 
 
श्रुतिर्विभिन्ना स्मृतयश्च भिन्नाः
 
नैको मुनिर्यस्य वचो'प्रमाणम् ।
 
धर्मस्य तत्त्वं निहितं गुहायाम्
 
महाजनो येन गतस्स पन्थाः ॥ *महाभारतम्*
 
धन्यो'स्मि
 
 
 
 
 
Dr.Korada Subrahmanyam
Professor of Sanskrit (Retd)
299 Doyen , Serilingampally, Hyderabad 500 019
Ph:09866110741
*Skype Id: Subrahmanyam Korada*
*Blog: Koradeeyam.blogspot.in <http://Koradeeyam.blogspot.in> *

No comments:

Post a Comment