*जरासन्धवधः।*
इन्द्रप्रस्थस्य निर्माणात् परं युधिष्ठिरः राजसूययज्ञस्य आयोजनम् अकरोत्। तस्मिन् यज्ञे श्रीकृष्णः सहभागं गृह्णातु सत्परामर्शमपि ददातु तदर्थं युधिष्ठिरः श्रीकृष्णमपि आह्वयत्।
भगवान् श्रीकृष्णः तत्र आगत्य यज्ञस्य समर्थनम् अकरोत्, परन्तु श्रीकृष्णः युधिष्ठिरम् अवदत् आदौ अत्याचारिणः ये राजानः सन्ति तेषां विनाशः भवेत्, तदा हि राजसूययज्ञस्य महत्त्वं तिष्ठेत्, अपिच देश-विदेशेषु च यज्ञस्य प्रसिद्धिः भवेत्।
सर्वप्रथमं जरासन्धस्य उपरि आक्रमणं भवतु इत्यस्य उपदेशं श्रीकृष्णः युधिष्ठिराय अददात्।
तदनन्तरं श्रीकृष्णः अर्जुनेन भीमेन च सह मगधाय प्रस्थितवान्, शीघ्रं च ते सर्वे मगधस्य राजधानीं गिरिब्रजं प्राप्नुवन्।
भगवतः श्रीकृष्णस्य नीतिः सफला अभवत्। सः भीमेन जरासन्धम् अघातयत्।
जरासन्धस्य मृत्योः परं भगवान् श्रीकृष्णः तस्य पुत्रं सहदेवं मगधस्य राजानम् अकरोत्। तदानीं च जरासन्धस्य कारागारे ये राजानः बन्दीरूपेण आसन् तान् सर्वान् ततः विमुच्य तेभ्यः स्व-स्वराज्यं प्रत्यर्पयत्।
एवं प्रकारेण भगवान् श्रीकृष्णः समाजे बहुधा ख्यातिम् अलभत।
*-प्रदीपः!*
No comments:
Post a Comment