*मनुष्यस्य चिन्तनम् उत्तमं भवेत्।*
एकदा कश्चिद् धनिकः अवलोकितवान् यद् जीर्णवस्त्रैः कश्चन बालकः तस्य कारयानम् अत्यन्तं कुतूहलेन पश्यति स्म।
निर्धनस्य बालकस्य ईदृशम् आचरणं दृष्ट्वा सः धनिकः तम् अपृच्छत् भोः! त्वं किं पश्यसि?
बालकः प्रत्यवदत् महोदय! भवतः यानम् अतीव सुन्दरम्। एतद् यानं बहुमूल्यकं ननु!
सः धनिकः गर्वेण अवदत् आम्! लक्षरुप्यकात्मकम् एतद् यानम्।
बालकः - तत् क्रेतुं निश्चयेन भवता अतीव श्रमः कृतः मन्ये?
धनिकः तदा हसित्वा अवदत् नैव! एतद् यानं मम भ्राता मह्यम् उपहारत्वेन दत्तवान्।
सः बालकः तदा किञ्चित् चिन्तनं कृत्वा अवदत् अहो! तर्हि तु भवतः भ्राता अतीव उत्तमः प्रतीयते।
धनिकः तदा उक्तवान्- अहमपि जानामि यत् त्वं तदेव चिन्तयसि यत् यदि तवापि ईदृशः भ्राता अभविष्यत् तर्हि तुभ्यमपि ईदृशं बहुमूल्यकं यानम् अदास्यत्।
निर्धनः बालकः तदा प्रसन्नमनसा प्रत्यवदत् नैव महोदय! अहं तु भवतः भ्रातृवद् भवितुम् इच्छामि।
कथायाः तात्पर्यम्। सर्वदा मनुष्यस्य चिन्तनम् उत्तमं भवेत्।
एवं चेद् मनुष्यः महान् भवितुम् अर्हेत्।
*-प्रदीपः!*
No comments:
Post a Comment