Saturday, November 20, 2021

Brahama hatya

नमो विद्वद्भ्यः
आततायिवधः -- ब्रह्महत्या ----- धर्मनिर्णयः
कृष्णयजुर्वेदः - भारतम् - भागवतम् - रामायणम् - गौतमस्मृतिः - मनुस्मृतिः - व्याकरणम् - पूर्वमीमांसा - छान्दोग्यम् शाङ्करभाष्यम्
यजुर्वेदः --
न ब्राह्मणं हन्यात् -- न हिंस्यात् सर्वा भूतानि 
 
भारतम् --यो यथा वर्तते यस्मिन् तस्मिन्नेवं प्रवर्तयन् ।नाधर्मं समवाप्नोति न चाश्रेयश्च विन्दति ॥ उद्योग . 179-80यस्मिन् यथा वर्तते यो मनुष्यः तस्मिन् तथा वर्तितव्यं स धर्मः ।मायाचारो मायया बाधितव्यः साध्वाचारो साधुना प्रत्युपेयः ॥ शान्ति.109-30गौतमस्मृतिः --
दृष्टो धर्मव्यतिक्रमः साहसं च महताम् ( 1-3 )महतामेतदृशं साहसमपि धर्मव्यतिक्रम एव दृष्टो न तु धर्मः । रागद्वेषनिबन्धनत्वात् । ( मिताक्षरा ) 
अवरदौर्बल्यात् (1-4 )
अवरेषाम् अस्मदादीनां दुर्बलत्वत् । तथा च श्रूयते --
तेषां तेजोविशेषेण प्रत्यवायो न विद्यते ।तदन्वीक्ष्य प्रयुञ्जानः सीदत्यवरको जनः ॥ ( मिता.)तत्र किं कर्तव्यम् ? --
तुल्यबलविरोधे विकल्पः ( 1-5 ) तुल्यप्रमाणप्रापितयोः एवंजातीयकयोः अर्थयोः विकल्पः । तद्वा इदं वा इत्यन्यतरस्वीकारः । न समुच्चयो'संभवात् । प्रकर्षबोधने तु श्रुतिस्मृतिविरोधे स्मृत्यर्थो नादरणीयः ।अतुल्यबलत्वात् ।अत एव जाबालिराह --श्रुतिस्मृतिविरोधे तु श्रुतिरेव गरीयसी ।अविरोधे सदा कार्यं स्मार्तं वैदिकवत्सदा ॥The above सूत्रम् is keeping the पूर्वमीमांसान्याय in mind ---शिष्ट्वा तु प्रतिषेधः स्यात् ( पू मी सू 10-8-4-6 ) उदिते जुहोति ( ऐत ब्रा 5-5-5) अनुदिते जुहोति ( तै ब्रा 2-2-2-3 , 12 ) , अतिरात्रे षोडशिनं गृह्णाति / नातिरात्रे षोडशिनं गृह्णाति -- in such cases विकल्प is ruled due to तुल्यबलविरोध ।पाणिनि wanted to avoid this and ruled - विप्रतिषेधे परं कार्यम् (1-4-2)भागवतम् --तमश्वमेधेन महामखेन श्रद्धान्वितो'स्माभिरनुष्ठितेन ।हत्वापि सब्रह्म चराचरं त्वं न लिप्यसे किं खलनिग्रहेण ॥ 6-3-9एवं सञ्चोदितो विप्रैर्मरुत्वानहनद्रिपुम्।
ब्रह्महत्या हते तस्मिन्नाससाद वृषाकपिम्॥ 6-13-10
स वाजिमेधेन यथोदितेन वितायमानेन मरीचिमिश्रैः ।इष्ट्वाधियज्ञं पुरुषं पुराणमिन्द्रो महानास विधूतपापः ॥ 6-13-21So the ब्रह्महत्यापाप of महेन्द्र is killed by अश्वमेधयाग ।In भागवतम् itself there is a different story (I studied this in 1972)--whether to kill अश्वत्थाम , who is a ब्रह्मबन्धु , or not --ब्राह्मणः कर्माणि अकुर्वाणः , न शूद्रः , किन्तु ब्रह्मबन्धुः । ब्राह्मणान् बन्धून् व्यपदिशति , न स्वयं ब्राह्मणवृत्तः इति । ( शाङ्करभाष्यम्,श्वेतकेतूपाख्यानम् , छान्दोग्योप.)
द्रौपदी --मुच्यतां मुच्यतामेष ब्राह्मणॊ नितरां गुरुः ।.... स एष भगवान् द्रोणः प्रजारूपेण वर्तते । 1-7-43,45 ( आत्मा वै पुत्रनामासि - यजुर्वेदः )भीमः --तत्राहामर्षितो भीमः तस्य श्रेयान्वधः स्मृतः । 51श्रीकृष्णः --निशम्य भीमगदितं द्रौपद्याश्च चतुर्भुजः ।आलोक्य वदनं सख्युः इदमाह हसन्निव ॥ 52ब्रह्मबन्धुर्न हन्तव्यः आततायी वधार्हणः।मयैवोभयमाम्नातं परिपाह्यनुशासनम् ॥ 53कुरु प्रतिश्रुतं सत्यं यत्तत्सान्त्वयता प्रियाम् ।प्रियं च भीमसेनस्य पाञ्चाल्या मह्यमेव च ।54What अर्जुन did --अर्जुनः सहसाज्ञाय हरेः हार्दमथासिना ।मणिं जहार मूर्धन्यं द्विजस्य सहमूर्धजम् ॥ 55Here श्रीकृष्ण declares - I myself said both , i e to be killed and not to be killed --ब्राह्मणो न हन्तव्यः ( श्रुतिः )आततायिनमायान्तस्मपि वेदान्तपारगम् ।जिघांसं तं जिघांसीयान्न तेन ब्रह्महा भवेत् ॥
Finally we may understand that there will be पापम् by killing a ब्राह्मण / ब्रह्मबन्धु and therefore one has to do प्रायश्चित्तम् to get rid of the same -- श्रीराम performedशिवलिङ्गप्रतिष्ठ at रामेश्वरम् । This is the आकूतम् of श्रीकृष्ण ।
धन्यो'स्मि
Dr.Korada Subrahmanyam
Professor of Sanskrit (Retd)299 Doyen , Serilingampally, Hyderabad 500 019
Ph:09866110741Skype Id: Subrahmanyam KoradaBlog: Koradeeyam.blogspot.in 
 
 

No comments:

Post a Comment