*कृष्णकथा।*
*कालसर्पवधः!*
भगवान् श्रीकृष्णः वृन्दावने यदा किञ्चिद् अवर्धत तदा सः भ्रात्रा बलरामेण सह मिलित्वा कदम्बवने कालसर्पस्य वधम् अकरोत्।
पुनश्च तत्र धनुको नाम कश्चन अत्याचारी दैत्यः आसीत्। तं बलरामः अहन्।
उक्तयोः उभयोः घटनयोः कारणात् श्रीकृष्णस्य बलरामस्य च ख्यातिः सर्वत्र प्रसृता अभवत्।
एतदतिरिच्य तत्र भगवान् श्रीकृष्णः यमलार्जुनः,शकटासुरः, प्रलम्बः च इत्येतेषां दैत्यानां वधम् अकरोत्।
*-प्रदीपः!*
No comments:
Post a Comment