Friday, October 22, 2021

Govrdhana hill - Sanskrit story

*कृष्णकथा।*
*गोवर्धनपर्वतः।*

वृन्दावनस्य समीपे हि गोवर्धनपर्वतः विद्यते। तत्र हि भगवान् श्रीकृष्णः वृन्दावनवासिनः इन्द्रस्य प्रकोपात् अरक्षत्। 

तस्मिन् काले वृन्दावनवासिनः सर्वे इन्द्रदेवात् भीताः सन्तः तस्य पूजां कुर्वन्ति स्म। 
श्रीकृष्णः तान् सर्वान् तस्मात् बहिः आनयत्। 

श्रीकृष्णः तान् समबोधयत् यत् मनुष्यैः केवलं परमेश्वरस्य प्रार्थना करणीया इति।

नन्दमहाराजः केवलम् इन्द्रस्य पूजां करोति स्म तस्य उत्सवं च पालयति स्म। 

भगवान् श्रीकृष्णः तन्निवारयन् कार्तिकमासे अन्नकूटस्य उत्सवम् प्रारभते स्म। 
*-प्रदीपः!*

No comments:

Post a Comment