*भगवद्भक्तः कः?*
भगवतः शिवस्य किञ्चन महद् मन्दिरम्।
तत्र प्रतिदिनं बहवः भक्ताः जलाभिषेकं कारयितुम् आगच्छन्ति स्म।
एकदा मन्दिरस्य परिसरे भक्तानां महान् सम्मर्दः आसीत्। तदानीम् आकाशात् एका स्वर्णस्थालिका मन्दिरे अपतत्, तेन सह च आकाशवाणी अभवत् यद् यः भगवतः शिवस्य महान् भक्तः सः एतां स्थालिकां नेतुं शक्नोति इति।
आकाशवाणीं श्रुत्वा तत्रत्याः पण्डिताः भक्ताः च सर्वे अपि अहमेव भगवतः महान् भक्तः इति कृत्वा स्थालिकां नेतुं प्रयत्नं कृतवन्तः।
परन्तु तेषां मध्ये यदा कश्चित् स्थालिकायाः स्पर्शं करोति स्म तदा सा स्थालिका ताम्रस्थालिका भवति स्म।
एवं दृष्ट्वा ते सर्वे अपि लज्जां प्राप्य ततः निर्गच्छन्ति स्म।
अन्ते तस्य राज्यस्य महाराजः अहन्तु मन्दिरस्य कृते महद् दानं कृतवान्। अतः अहमेव स्थालिकायाः अधिकारी इति चिन्तयित्वा आगतवान्।
परन्तु महाराजः अपि यदा स्वर्णस्थालिकायाः स्पर्शम् अकरोत् तदा अपि सा स्थालिका ताम्रस्थालिका अभवत्।
महाराजः अपि लज्जां प्राप्य ततः निर्गतवान्।
एवमेव कानिचन दिनानि अतीतानि।
भगवते शिवाय जलार्पणं कर्तुं कश्चन कृषकः तन्मन्दिरम् आगतवान्।
सः अपि स्थालिकाविषये श्रुतवान्। परन्तु तत्र सः ध्यानं न अददात्।
सः भगवतः शिवस्य पूजादिकं समाप्य स्वगृहं प्रति गन्तुम् प्रस्थितवान्।
तदानीं कश्चन पण्डितः तम् उक्तवान् भोः! भवानपि एकवारं स्वर्णस्थालिकायाः स्पर्शं कृत्वा पश्यतु, भवानेव भगवतः महान् भक्तः स्यात् इति।
सः अत्यन्तं सरलः कृषकः तदा उक्तवान् महात्मन्! मम भाग्ये एतन्नास्ति, अहं तु कृषकः आदिनं कृषिक्षेत्रे कार्यं करोमि, कथमहं भगवतः भक्तः भवितुम् अर्हामि इति।
सर्वे आग्रहं कृतवन्तः इति कारणतः सः कृषकः स्थालिकायाः स्पर्शम् अकरोत्। सः यदा स्थालिकायाः स्पर्शम् अकरोत् तदा स्थालिकायाः परिवर्तनं न अभवत्, यथावत् स्वर्णस्थालिका आसीत्।
एतद् दृष्ट्वा सर्वे महदाश्चर्यं प्राप्तवन्तः।
ते कृषकं तदा पृष्टवन्तः भोः! भवान् कथं भगवतः भक्तिं करोति? इति।
सः उक्तवान्- अहं तु भगवन्तं स्मरामि एव, परन्तु मन्दिरं गत्वा भगवतः पूजां कर्तुं समयः न भवति। आदिनं कृषिक्षेत्रे कार्यं करोमि अपिच अन्येषां यथाशक्ति साहाय्यं करोमि इत्येव।
एवं श्रुत्वा पण्डितः उक्तवान् भवान् किमर्थम् अन्येषां साहाय्यं करोति?
सः तदा उक्तवान् निर्धनानां साहाय्यं कृत्वा अहम् आनन्दं प्राप्नोमि, अतः तेषां साहाय्यं करोमि इति।
अर्थात् कस्यचन मनुष्यस्य आचरणेन कर्मणा वा अन्ये यदि सन्तुष्टाः भवन्ति तर्हि भगवान् अपि सन्तुष्टः भवति इति।
*-प्रदीपः!*
No comments:
Post a Comment