वाच्यपरिवर्तनम् -
वाच्यं त्रिविधं भवति।
१. कर्तृवाच्यम् -
कर्तरि प्रथमा विभक्तिः भवति |
कर्मणि द्वितीयाविभक्तिः भवति |
क्रियापदं कर्तृपदानुरूपं भवति |
२. कर्मवाच्यम्-
कर्तरि तृतीयाविभक्तिः भवति |
कर्मणि प्रथमा विभक्तिः भवति |
क्रियापदं कर्मपदानुनुरूपं भवति |
३. भाववाच्यम् -
कर्तरि तृतीयाविभक्तिः भवति |
कर्म न भवति |
क्रिया प्रथमपुरुषस्य एकवचने भवति |
कर्तृवाच्यं कर्मवाच्ये परिवर्तनम्
कर्तृवाच्यम् - कर्ता(प्र. विभक्तिः) + कर्म(द्वि. विभक्तिः) + क्रिया(धातुः) कर्त्रानुसारम्
👇 👇 👇
कर्मवाच्यम्- कर्ता(तृ. विभक्तिः) + कर्म(प्र. विभक्तिः) + क्रिया(धातुः+यते) कर्मानुसारम्
यथा-
कर्तृवाच्यम्- अशोकः लेखं लिखति |
👇 👇 👇 👇
कर्मवाच्यम्- अशोकेन लेखः लिख्यते | (लिख्+यते)
कर्तृवाच्यम् कर्मवाच्यम्
१. महिलाः जलम् आनयन्ति | १. महिलाभिः लेखः लिख्यते |
२. मित्रं सहयोगं ददाति | २. मित्रेण सहयोगः दीयते |
३. लता राष्ट्रगीतं गायति | ३. लतया राष्ट्रगीतं गीयते |
४. श्रमिकाः वेतनं लभन्ते | ४. श्रमिकैः वेतनं लभ्यते |
५. बालकः पाठं पठति | ५. बालकेन पाठः पठ्यते |
६. बालकः पाठान् पठति | ६. बालकेन पाठाः पठ्यन्ते
विशेषः-
* मूलधातोः 'यते, येते, यन्ते' प्रयुज्यन्ते |
*धातूनां कर्मणि/भावे प्रयोगः-
कथ् = कथ्यते
गम् = गम्यते
दृश् = दृश्यते
कृ = क्रियते
पूज् = पूज्यते
रच् = रच्यते
खाद् = खाद्यते
धृ = धार्यते
पा = पीयते
हस् = हस्यते
रुद् = रुद्यते
कर्मवाच्यं कर्तृवाच्ये परिवर्तनम्
कर्मवाच्यम्- कर्ता(तृ. वि.) + कर्म(प्र.वि.) + क्रिया(धातुः+यते) कर्मानुसारम्
👇 👇 👇
कर्तृवाच्यम् - कर्ता(प्र.वि. ) + कर्म(द्वि.वि.) + क्रिया(धातुः) कर्त्रानुसारम्
कर्मवाच्यम् कर्तृवाच्यम्
कर्तृवाच्यं भाववाच्ये परिवर्तनम्
कर्तृवाच्यम् - कर्ता(प्र. वि.) + कर्म(द्वि. वि.) + क्रिया(धातुः) कर्त्रानुसारम्
👇 ❌ 👇
भाववाच्यम् - कर्ता(तृ. वि.) + कर्म(न ) + क्रिया(धातुः+यते) नित्यं प्र. पुरुष एकवचनम्
कर्तृवाच्यम् भाववाच्यम्
१. अश्वः धावति | १. अश्वेन धाव्यते |
२. कन्याः हसन्ति | २. कन्याभिः हस्यते |
३. बालकः क्रीडति | ३. बालकेन क्रीड्यते |
४. शिशुः स्वपिति | ४. शिशुना सुप्यते |
५. छात्राः तिष्ठन्ति | ५. छात्रैः स्थीयते।
No comments:
Post a Comment