प्रहेलिका।
कश्चन तडागः अस्ति। तडागस्य प्रत्येकं कोणे एकैकं मन्दिरम् अस्ति। अर्थात् चत्वारि मन्दिराणि सन्ति।
कश्चन अर्चकः प्रतिदिनम् आगत्य चतुर्ष्वपि मन्दिरेषु पुष्पैः पूजां करोति।
सः अर्चकः कानिचन पुष्पाणि आनीय आदौ तडागे स्नानं करोति तदनन्तरं सः पूजां करोति।
यदा सः पुष्पाणि प्रक्षालयितुं जले निमज्जयति तदा पुष्पाणि द्विगुणीभवन्ति।
तेभ्यः पुष्पेभ्यः कानिचन पुष्पाणि उपयुज्य प्रथमे मन्दिरे पूजां करोति।
पुनश्च अवशिष्टानि पुष्पाणि जले निमज्जयति, तानि च पुष्पाणि पुनः द्विगुणीभवन्ति।
पुनश्च सः द्वितीये मन्दिरे तेभ्यः पुष्पेभ्यः कानिचन पुष्पाणि उपयुज्य पूजां करोति।
एवमेव सर्वेष्वपि मन्दिरेषु यदा सः पूजां समापयति तदा तस्य हस्ते एकमपि पुष्पम् अवशिष्टं न भवति।
सर्वेष्वपि मन्दिरेषु सः समानरूपेण पुष्पाणि उपयुज्य पूजां करोति।
इदानीं प्रश्नः अस्ति यत् सः कति पुष्पाणि आनयति? एकस्मिन् मन्दिरे च सः कति पुष्पाणि उपयुज्य पूजां करोति?
*-प्रदीपः!*
No comments:
Post a Comment