*दानस्य अहंकारः!*
एकदा श्रीकृष्णः अर्जुनेन सह कुत्रचिद् गच्छति स्म।
मार्गे अर्जुनः श्रीकृष्णम् अपृच्छत् प्रभो! मम मनसि एका जिज्ञासा अस्ति! यदि आज्ञा दीयते तर्हि पृच्छामि!
श्रीकृष्णः अवदत् अर्जुन! त्वं प्रष्टुम् इच्छसि निःसङ्कोचं पृच्छ!
तदा अर्जुनः पृष्टवान् प्रभो! दानं तु अहमपि बहुधा करोमि परन्तु जनाः कर्णः एव महान् दाता इति किमर्थं वदन्ति?
प्रश्नं श्रुत्वा श्रीकृष्णः हसित्वा उक्तवान् अर्जुन! अद्य निश्चयेन तव शङ्कायाः निवारणं कारयिष्यामि इति।
तदानीं तयोः समीपे कश्चन महान् पर्वतः आसीत्।
श्रीकृष्णः तं पर्वतं स्वर्णपर्वतं कारयित्वा अर्जुनम् अब्रवीत् पार्थ!
तं पर्वतं पश्य!
तस्मिन् पर्वते सर्वं स्वर्णम् अस्ति। त्वं सर्वान् ग्रामवासिनः आहूय तेभ्यः एतत् सर्वं स्वर्णं दानरूपेण यच्छ!
अर्जुनः तदा सन्तोषेण भगवतः श्रीकृष्णस्य आदेशानुसारं तत् कर्तुम् आरब्धवान्।
ग्रामवासिनः स्वर्णं प्राप्य अर्जुनस्य जयजयकारं प्रारब्धवन्तः।
अर्जुनः पर्वतात् स्वर्णम् आनयति स्म तेभ्यः च ददाति स्म।
अर्जुनः अविरामः दिनद्वयं यावत् स्वर्णस्य वितरणम् अकरोत्, परन्तु पर्वते स्वर्णं यथावद् आसीत्। किञ्चिदपि स्वर्णं न्यूनं न अभवत्।
तावता अर्जुनस्य अहंकारः अपि अभवत्।
ग्रामवासिनः पुनः पुनः तत्र आगत्य स्वर्णं नयन्ति स्म। एतेन सः अर्जुनः अन्ते अत्यन्तं श्रान्तः अपि अभवत्।
श्रान्तः भूत्वा अर्जुनः श्रीकृष्णम् अवदत् प्रभो! एतत् कार्यम् इतोपि अहं कर्तुं न शक्नोमि। अहम् अत्यन्तं श्रान्तः अस्मि, अतः मम विश्रामस्य आवश्यकता अस्ति इति।
श्रीकृष्णः तथास्तु इत्युक्त्वा तत्समये कर्णम् आहूय तदेव कार्यं कर्तुम् आदिष्टवान्।
कर्णः तत्क्षणात् तत्र गत्वा सर्वान् ग्रामवासिनः आहूय एतत् सर्वं स्वर्णं भवतामेव।
अतः भवतां मध्ये यस्य यावत् प्रयोजनम् अस्ति तावद् नीयताम् इत्युक्त्वा सः कर्णः ततः प्रस्थितवान्।
कर्णस्य इत्थं कार्यकौशलं दृष्ट्वा अर्जुनः श्रीकृष्णम् अवदत् प्रभो! एवं विचारः मम मनसि किमर्थं न उत्पद्यते स्म?
तदा श्रीकृष्णः अवदत् अर्जुन! स्वर्णं दृष्ट्वा तव मोहः जातः आसीत्।
त्वं तदानीं निर्णयं करोषि स्म यत् कस्मै कियत् स्वर्णं दातव्यम् इति।
*-प्रदीपः!*
No comments:
Post a Comment