Monday, January 25, 2021

Ram temple - Sanskrit poem


*॥भूरिशो दीयतां राम-मन्दिराय॥*
 
यो रामो दत्तवान् पित्रे धर्मसङ्कटमोचनम्।
तस्य मन्दिरनिर्मित्यै दीयतां भूरिशो धनम्॥१॥
 
यो रामो दत्तवान् राज्यं भ्रात्रे पादुकया सह
तस्य मन्दिरनिर्मित्यै दीयतां भूरिशो धनम्॥२॥
 
यो रामो दत्तवान् सख्यं गुहाय वनवासिने।
तस्य मन्दिरनिर्मित्यै दीयतां भूरिशो धनम्॥३॥
 
यो रामो दत्तवान् मोक्षं सश्रद्धं पक्षिराट्कृते।
तस्य मन्दिरनिर्मित्यै दीयतां भूरिशो धनम्॥४॥
 
यो रामो दत्तवान् सौख्यं सुग्रीवाय तदर्थिने
तस्य मन्दिरनिर्मित्यै दीयतां भूरिशो धनम्॥५॥
 
यो रामो दत्तवान् शान्तिम् शबर्यै शाश्वतीं पराम्।
तस्य मन्दिरनिर्मित्यै दीयतां भूरिशो धनम्॥६॥
 
यो रामः शरणं प्रादात् रावणस्यानुजन्मने।
तस्य मन्दिरनिर्मित्यै दीयतां भूरिशो धनम्॥७॥
 
यो रामः समरे प्रादात् रावणाय पराजयम्।
तस्य मन्दिरनिर्मित्यै दीयतां भूरिशो धनम्॥८॥
 
यो रामो लक्ष्मणायादात् सदा सेवासुखं वरम्।
तस्य मन्दिरनिर्मित्यै दीयतां भूरिशो धनम्॥९॥
 
यो रामो दत्तवान् स्थानम् सीतायै हृत्सरोरुहे।
तस्य मन्दिरनिर्मित्यै दीयतां भूरिशो धनम्॥१०॥
 
यः श्रीरामो हनुमते प्रीतिमात्यन्तिकीं ददौ।
तस्य मन्दिरनिर्मित्यै दीयतां भूरिशो धनम्॥११॥
 
यो रामो दत्तवान् नॄणाम् अनुकार्यं परायणाम् ।
तस्य मन्दिरनिर्मित्यै दीयतां भूरिशो धनम्॥१२॥
 
फलश्रुतिः
 
सत्पद्यगुम्फो जयरामगीतः सत्प्रेरणां भूरि निधिप्रदाने।
 
श्रीराम-सन्मन्दिरसिद्धिहेतोर् जनेषु दद्यात् तदनुग्रहेण॥
 
 
regards
Dr.M.Jayaraman
Director, Research Department, Krishnamacharya Yoga Mandiram
Member, Expert panel for Yoga, TKDL-CSIR, Govt of India
Member, BoS, Dept of Sanskrit, University of Madras & RKM Vivekananda
College, Chennai
http://alarka-bhasitam.blogspot.in/
https://independent.academia.edu/jayaramanMahadevan
http://yoga-literary-research.blogspot.in/2015/10/the-books.html  

No comments:

Post a Comment