Wednesday, December 2, 2020

Water on lotus leaf-Sanskrit essay

*स्वर्वाणीप्रकाशः (वाट्साप् गणः)* 
🍀रविवासरः 18-10-2020🌷
✍प्रस्तावविषयः-- पद्मपत्रमिवाम्भसा🍃

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा।।

यः ब्रह्मणि परमात्मनि ईश्वरे आत्मना आत्मानं समर्प्य कर्मफलम् अनिच्छन्
कर्माणि करोति तं पापानि न बध्नन्ति यथा पद्मपत्रे जलं तिष्ठति चेदपि पत्रजलकणयोः परस्परबन्धनं न दृश्यते तथा । अनेन उदाहरणेन गीतायां भगवान् कर्माचरणस्य सर्वोच्चमार्गं दर्शयति। योगमार्गे यस्य कस्यापि पुरोगत्याः कारणं सङ्गवर्जनमेव। अफलाकांक्षिणो भूत्वा कर्माणि करणीयानि। तादृशानाम् एव हृदयनैर्मल्यं मोक्षमार्गप्रवेशनं च साध्यम् । कर्तृत्वाभिमानरहिता एव बन्धनात् मोचनं प्राप्नुवन्ति।।

सङ्गात्संजायते कामः इत्यपि भगवता श्रीकृष्णेन कथितम् । 

नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः।

अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः।।

अतः कर्माणि अस्माकम् अज्ञाननाशनाय भवेत् इति अवगच्छामः ।करोमि कारयामीत्यादीन् विमूढभावान् त्यक्त्वा ज्ञानार्थं यत्नमाश्रयेत् इति।।


- सुनीश् नम्पूतिरि

No comments:

Post a Comment