*अर्जुनस्य अहंकारः।*
महाभारतस्य कश्चन प्रसङ्गः। एकदा अर्जुनस्य अहंकारः अभवत् यत् सः एव भगवतः श्रीकृष्णस्य महान् भक्तः इति।
भगवान् श्रीकृष्णः अर्जुनस्य अहंकारविषये सम्यक् ज्ञातवान्। तस्य अहंकारं नाशयितुं च भगवान् श्रीकृष्णः इष्टवान्।
एकस्मिन् दिने श्रीकृष्णः अर्जुनेन सह भ्रमणाय गतवान्।
मार्गे केनचित् निर्धनब्राह्मणेन सह तयोः मेलनम् अभवत्। सः ब्राह्मणः शुष्काणि तृणानि खादन् आसीत्। परन्तु तस्य पार्श्वे एकः महान् खड्गः आसीत्।
एवं दृष्ट्वा अर्जुनः तं ब्राह्मणं पृष्टवान् भोः! भवान् तु ब्राह्मणः अहिंसकः अस्ति! किन्तु भवत्पार्श्वे खड्गः किमर्थम्? इति!
केचन दुष्टाः सन्ति। अहं तान् दण्डयितुम् इच्छामि इति ब्राह्मणः अवदत्।
अर्जुनः पुनः पृष्टवान् भवतः शत्रवः के सन्ति? इति।
सः ब्राह्मणः तदा अवदत्,अहं चतुर्णां जनानाम् अन्वेषणं करोमि। सर्वप्रथमं नारदमुनेः अन्वेषणं करोमि।
सः दिवानक्तं मम प्रभोः नाम जपति। एतेन मम प्रभुः शान्त्या स्थातुं न शक्नोति।
पुनः च द्रौपद्याः उपरि अपि मम क्रोधः अस्ति। सा तस्मिन् समये मम प्रभुम् आह्वयत् यस्मिन् समये मम प्रभुः भोजनं करोति स्म। तस्याः आह्वानं श्रुत्वा मम प्रभुः भोजनं त्यक्त्वा दुर्वासाऋषेः शापात् पाण्डवान् रक्षितुम् अगच्छत्।
तदनन्तरं अर्जुनः तं ब्राह्मणं पुनः पृष्टवान्, भवतः तृतीयः शत्रुः कः अस्ति? इति।
सः ब्राह्मणः उक्तवान् मम तृतीयः शत्रुः प्रह्लादः अस्ति। सः निर्दयी तु मम प्रभुम् उष्णे तैले अपातयत्।
चतुर्थः शत्रुः तु अर्जुनः एव। तस्य दुष्टतां पश्यन्तु यत् सः मम प्रभुं तस्य शारथिरूपेण नियोजितवान्।
मम प्रभुं प्रति तस्य किञ्चिदपि दया नासीत्।
मम प्रभुः कियत् कष्टम् असहत इति अर्जुनः न जानाति।
एवम् उक्त्वा सः ब्राह्मणः रोदनम् आरब्धवान्।
ब्राह्मणस्य वचनं श्रुत्वा अर्जुनः लज्जां प्राप्तवान्। अपिच अर्जुनस्य अन्तःकरणे यद् अहंकारः आसीत् तस्य नाशः च अभवत्।
*-प्रदीपः!*
No comments:
Post a Comment