।।संस्कृत वाक्याभ्यासः ।।
अद्य प्रातः एकस्य गृहं गतवान् अहम्।
= Went to one's house this morning.
तस्य पुत्रः पुत्रवधुश्च आगतौ स्तः।
= His son-in-law has come.
प्रातःकाले तस्य गृहे यज्ञः आसीत्।
= His home yagna in the morning Was.
गृहे बहु सुन्दरं सुशोभनं तै: कृतम् आसीत्।
= They had fine decoration in the house.
परिवारस्य पुरुषाः धौतवस्त्रं धारितवन्तः।
= The men of the family wore a dhoti.
महिलाः शाटिकां धारितवत्यः।
= The women wore saris.
ते सर्वे श्रद्धया यज्ञं कृतवन्तः ।
= They all yagna with reverence.
अनन्तरं पुत्रवधू: एकं शास्त्रीयं गीतं गीतवती।
= Later the daughter-in-law sang a classical song.
गीतं बहु मधुरम् आसीत्।
= The song was very melodious.
गीतं श्रुत्वा सर्वे प्रसन्नाः अभवन्।
= Everyone was pleased to hear the song.
ओह ,.....गर्त: ....गर्त: .....
= अरे ,...... गड्ढा ..... गड्ढा .....
ओ भ्रातः .... शनैः ... मन्दम् .....
= ओ भैया ..... धोरे .... धीरे .....
ओ भ्रातः , अग्रे गर्त: अस्ति ।
= ओ भैया , आगे गड्ढा है ।
यानस्य गतिम् नियंत्रयतु ।
= वाहन की गति को नियंत्रित करिये ।
यानं रुणद्धु ।
= वाहन रोकिये ।
सः भ्राता गर्तस्य समीपे एव यानं रुणद्धि ।
= वह भाई गड्ढे के सामने ही वाहन रोकता है ।
अनन्तरं सः हसति ।
= बाद में वह हँसता है ।
* अहं यानचालने निपुणः अभवम् ।
= मैं वाहन चलाने में निपुण हो गया
* अहं कुत्रापि यानं रोद्धुम् शक्नोमि
= मैं कहीं भी वाहन रोक सकता हूँ
भगिनी अवदत्
= बहन बोली ।
भ्रातः , भवता सह याने न उपवेक्ष्यामि
= भैया , आपके साथ वाहन में नहीं बैठूँगी ।
अहमपि यानचालनस्य अभ्यासं करिष्यामि ।
= मैं भी वाहन चलाने का अभ्यास करूँगी ।
अधुना मार्गः अवरुद्धः अस्ति ।
= अभी रास्ता अवरुद्ध ( बन्द ) है
अग्रे एका दुर्घटना संजाता ।
= आगे एक दुर्घटना हुई है
दुर्घटना सेतोः उपरि अभवत् ।
= दुर्घटना पुल के ऊपर हुई है
यानानि अग्रे गन्तुं न शक्यन्ते ।
= वाहन आगे जा नहीं सकते हैं
सर्वाणि यानानि पङ्क्ति मध्ये (पंक्त्याम् ) तिष्ठन्ति ।
= सभी वाहन लाइन में खड़े हैं
अहमपि याने अस्मि ।
= मैं भी वाहन में हूँ
मम यानस्य अग्रे अनेकानि यानानि सन्ति
= मेरे वाहन के आगे अनेक वाहन हैं
मम यानस्य पृष्ठे अपि अनेकानि यानानि सन्ति ।
= मेरे वाहन के पीछे भी अनेक वाहन हैं
यातायात-नियंत्रकः बहु यतते ।
= ट्रैफिक कंट्रोलर बहुत प्रयास कर रहा है
( नियंत्रकाः यतन्ते )
न जानामि , मार्गः कदा सुगमः भविष्यति ।
= नहीं जानता , रास्ता कब जाने योग्य होगा ।
कदा अहं गृहं प्राप्स्यामि ?
= कब मैं घर पहुँचूँगा ?
।। जयतु संस्कृतम् ।।
No comments:
Post a Comment