*पुणेनगरीयः* :- हरिओम्, फ्लिपकार्टसंस्थायाः क्रमाङ्कः वा?
*फ्लिप्कार्ट्* :- आम् महोदय।
*पुणेनगरीयः* :- अद्य मम पत्नी प्रसूता, सुन्दरः पुत्ररत्नं प्राप्तम् अस्ति।
*फ्लिप्कार्ट्* :- अभिनन्दनानि । अतीव आनन्दमयी वार्ता एषा। किन्तु अस्मिन् वयं किं साहाय्यं कुर्मः?
*पुणेनगरीयः* :- न किमपि विशेषम्। अहं मम वित्तकोषक्रमाङ्कं ददामि। भवान् तस्मिन् धनं निक्षिपतु।
*फ्लिप्कार्ट्* 😧 :- महोदय, कोऽपि सम्भ्रमः जातः अस्ति इति भाति। एषा फ्लिप्कार्ट् संस्था। अस्माभिः धनं किमर्थं दातव्यम्?
*पुणेनगरीयः* :- भवता एव आङ्ग्लभाषायां सर्वत्र विज्ञापितम् अस्ति, प्रसूत्योत्तरधनम् (cash on delivery) इति । तत् किमर्थम्?
😂😂😝🙊🙊😝😂
No comments:
Post a Comment