Wednesday, July 22, 2020

Corona prayer to Goddess Jagadamba - Sanskrit poem

यदा यदा त्रिलोकेषु
भीतिस्समुपजायते।
तदा तदा त्वमेवाम्ब
उपशान्तिं प्रयच्छसि।।

इदानीं तु महीलोके
कोरोना नाम संझक‍:।
महापीडा समुत्पन्ना
प्राणसंहारकोद्यम:।।

दिने  दिने शताधिक्या:
गतप्राणा: भवन्ति हि।
इदानीं त्वत्कृपा नो चेत्
महाहानि: भवत्युत ।।

जगदम्बा दयालम्बा
कुरु चित्ते कृपार्द्रताम्।
रक्षणं कुरु भीतार्तान्
जगद्रक्षणदीक्षिते ।।

अपराध सहस्राणि
कुर्वन्त्येव लघुर्जना‍:।
तान् सर्वान् सह्य त्वं मात:
पीडा शान्तिं करोषि वै।।

 मा विलम्बं करोत्वद्य 
क्षणञ्चापि महेश्वरि।
रुदन्तं स्वसुतं दृष्ट्वा 
कथं माता सहिष्यति।।

सर्वमङ्गल माङ्गल्ये
शिवे सर्वार्थ साधिके।
शरण्ये त्र्यम्बके देवि
नारायणि नमोस्तुते ।।
 
🙏🙏🙏🙏🙏🙏🙏🙏🙏

No comments:

Post a Comment