स्मरणीयम् --
१. शोकावसरे किं कर्तव्यम् ?
-- ' प्रकृतिः केवलम् एका माया, परिवर्तनशीला च । अस्याम् उत्पन्न-नष्टयोः क्रीडा निरन्तरं प्रचलति । रूपस्य एव परिवर्तनं भवति अत्र, न वा मूलवस्तुनः ' इति । मुख्याधारो भगवान् तु अस्ति एव । पुनः एवं शोकः किमर्थं मम इति हृदये दृढविश्वासो धर्तव्यः ।
२. रोगावसरे किं कर्तव्यम् ?
-- ' रोगः तु शरीरे एव जायते, अहन्तु नित्य-निरामयः, मां न कोऽपि रोगः बाधते कदापि । अहं सर्वेषां द्रष्टा अस्मि । इदं शरीरमेव क्षणभङ्गुरम्, नाशवच्च । अहम् आत्मा तु अविनाशी अमरो वा ' इति सम्यक् चिन्तनीयम् ।
३. कामप्रसङ्गे किं कर्तव्यम् ?
-- ' अस्य जगतः समस्तसुन्दरता प्रभोः सुन्दरतायाः एककणवदपि न स्यात् । मोहवशतः अहम् अस्थिमांसरुधिरादिभिः निर्मिते नारीशरीरस्यूते कथम् आसक्तो जातः, एतत् केवलम् अज्ञानमेव मम तु । अतः प्रभुकृपया एतदज्ञानस्य वशीभूतो भवितुम् अनर्होऽहम् । अहं निर्मलः, असङ्गोऽस्मि ; मम हृदये रामः अस्ति, न वा तुच्छकामः एव । यथा सूर्यस्य पुरतः खद्योतस्य मूल्यमेव नास्ति, तथैव मम रामस्य पुरतः मे तत्तुच्छकामस्य ' इति चिन्तनीयम् ।
४. क्रोधावसरे किं कर्तव्यम् ?
-- ' मौनता अवलम्बनीया तदवसरे । भगवानेव विश्वरूपेण तिष्ठति, तर्हि केन सह क्रोधः करणीयः, किं भगवता सह ? अहं क्रोधात् परः अस्मि, अहं क्षमया पूर्णोऽस्मि, अतः अहं क्रोधस्य वशीभूतो भवितुमपि अनर्हः एव ' इत्येवं चिन्तनीयम् ।
५. लोभावसरे किं करणीयम् ?
-- ' अहं सर्वदा परिपूर्णः एव ; परेषां धनं नावश्यकं मह्यम् । सर्वं भगवतः एव , इदं न मम ; यावद् आवश्यकं तावत् धनन्तु मह्यं यच्छन् अस्ति दास्यति चैव भगवान्, पुनः लोभः कुतो मम ' इति सम्यक् चिन्तनीयम् इति, शम् ।
-- नारदः, २३/०४/२०.
No comments:
Post a Comment