Friday, May 1, 2020

Sanskrit joke

एकदा एकः मशकशावकः प्रथमवारं डयनं शिक्षितवान्।

सः डीत्वा इतस्ततः भ्रमणं कृत्वा यदा पुनः आगतवान् तदा तस्य पिता पृष्टवान् भोः पुत्र! अद्य कथम् आसीत् तव भ्रमणम्? 

शावकः तदा उक्तवान् हे पितः! अद्य तु मम भ्रमणं समीचीनम् आसीत्। 
अहं यत्र कुत्रापि गतवान् आसम् जनाः केवलं करताडनं कुर्वन्तः आसन्। 
*-प्रदीपः!*

No comments:

Post a Comment