Thursday, May 21, 2020

Sanskrit is a dead language? - An interesting article

*॥ संस्कृतमातृभाषिपरम्परा ॥*
(संभाषणसन्देशस्य अक्टोबर-2004 अङ्के प्रकाशितः लेखः)
-- _चमूकृष्णशास्त्री, न्यासी सचिवः संस्कृतसंवर्धनप्रतिष्ठानम्।_

वृक्षस्य शक्तिः का ? इति पृष्टे सति तत्र शक्तिद्वयं कथ्यते - वृक्षस्य यद् मुख्यं काण्डम् अस्ति तस्य आन्तरिकसत्त्वं दार्ढयं च, तथा च मूलानि भूम्यां कियद् अधिकं गभीरं गतानि इति एतद्द्वयं यावत् अधिकं भवति तावता प्रमाणेन वृक्षस्य शक्तिः अधिका इति वक्तुं शक्यते । संस्कृतभाषा कश्चन वृक्षः इति चिन्त्यते चेत् तत्र ते द्वे शक्ती के भवतः ? काण्डस्य आन्तरिकसत्त्वदायभूता शक्तिः भवति संस्कृतज्ञानां (अधीतसंस्कृतानाम् अधीयमानसंस्कृतानां वा) व्याकरणादि-शास्त्रज्ञानम् । गभीरङ्गतानि मूलानि इव विद्यमाना शक्तिः भवति मातृभाषारूपेण भाषा, शिक्षणमाध्यमरूपेण भाषा, लोकव्यवहाररूपेण भाषा च । मूलेषु अपि एकं मूलं मुख्यभूतं भवति, यस्य नाम कासुचित् प्रादेशिकभाषासु मातृमूलम् इति कथ्यते, तद् मूलं वृक्षस्य वास्तविकः आधारः भवति । मातृभाषा, शिक्षणादीनां माध्यमभाषा, लोकव्यवहारभाषा, प्राशासनिकभाषा, सम्पर्कभाषा इत्यादिभाषाः विविधानि मूलानि चेत् तासु मातृभाषात्वमेव मातृ-मूलतुल्यम् । कस्याश्चिदपि भाषायाः स्थायी आधारः भवति मातृभाषिपरम्परा । मूले छिन्ने वृक्षः कथं जीवेत् ? 

'संस्कृतं मातृभाषाणां माता इत्यतः सा मातृभाषा एव' इत्यादिरूपेण कदाचित् वयं कथयामः । किन्तु अभिमानवशात् संस्कृतम् अस्माकं मातृभाषा इति कथनेन सा मातृभाषा न भवति । सः केवलं वादः भवति । तथा तु 2001तमस्य क्रिस्ताब्दस्य भारतीयजनगणनायाः अनुसारं भारते 49,736जनाः संस्कृतमातृभाषिणः सन्ति, ये च भारतस्य आहत्य जनसंख्यायाः 0.006% भवन्ति । जनगणनावसरे राज्ये राज्ये (विशेषतया उत्तरप्रेदेशे - 24,000जनाः) स्थाने स्थाने अस्माभिः तथा लेखितं, तादृशलेखनाय आग्रहः कृतः, देशे सर्वत्र अभियानं कृतं, तस्मात् तावन्तः जनाः संस्कृतं मातृभाषा इति उद्घोषितवन्तः, तेन च भविष्यत्काले संविधानात्मकचर्चासन्दर्भे संस्कृतहितरक्षणमपि भवेत् । एतद् अस्माकं 'Strategic Positioning' इति तावदेव । वास्तविकरूपेण मातृभाषा नाम का ? 

जन्मनः अनन्तरं शिशोः जगतः परिचयः यया भाषया भवति, माता यया भाषया शिशोः लालनपोषणे करोति, यया भाषया शिशुः क्रीडति रोदिति च, सा भाषा तस्य शिशोः मातृभाषा इति कथ्यते । (सा इतरेषां 'मातृभाषा' इति न भवति) तादृशे अर्थे पूर्वं संस्कृतं सार्वत्रिकरूपेण, आसेतुहिमाचलं, मातृभाषा आसीत् । 
सम्भवतः केभ्यश्चित् शतेभ्यः वर्षेभ्यः पूर्वमपि संस्कृतं लक्षशः जनानां मातृभाषा आसीत् । कुलपरम्परा माध्यमेन संस्कृतभाषाम् उत्तरोत्तरसन्ततिः अधिगच्छति स्म । एवं परम्परया मातृ-भाषारूपेण संस्कृतभाषागङ्गा अव्याहता आ-देशं प्रवहति स्म । परं बहुशः अतीते सहस्रवर्षावधिककाले बाह्याक्रमणानां कारणतः, सामाजिकविकृतीनां कारणतः च सा संस्कृतमातृभाषिपरम्परा क्षीणतां गता । ब्रिटिश्भारते तु लुप्तप्राया एव जाता । तथापि स्वतन्त्रभारते काशी-लखनऊ-कठमण्डु-सागर(शिवमोग्ग)-मत्तूरु-बेङ्गलूरु कल्लक-तिरुवनन्तपुर-कोव्वूरु-भाग्यनगरादिषु बहुषु स्थानेषु संस्कृतमातृभाषिपरम्परायाः उज्जीवनाय केचन प्रयत्नम् आरब्धवन्तः । इतिहासस्य नूतनम् अध्यायम् उद्घाटितवन्तः च । 

विश्वे पञ्चभिः कारणैः कस्याश्चिदपि भाषायाः जीवनं, वर्धनं मरणं च निश्चितं भवति । तानि च -
1) मातृभाषित्वम् 
2) धर्मसंस्कृत्योः वाहकत्वम् 
3) राजाश्रयत्वम् 
4) जगतः परिवर्तनानां पचनसामर्थ्यम् - (स्वस्मिन् adaptability )
5) आर्थिक-कारणं च इति । 
एतेषु पञ्चसु अपि मूलभूतः आधारः, प्राथमिकी आवश्यकता, वास्तविकी शक्तिः, शक्तिमूलं वा भवति तस्याः भाषायाः मातृभाषिजनाः कति सन्ति, तेषां संख्या कियती इति। 

संस्कृतसम्भाषणान्दोलनस्य कारणतः अद्य लक्षशः जनाः संस्कृतेन सम्भाषणं कुर्वन्ति, अतः पुनरपि संस्कृतं 'भाषा' पदस्य अन्वर्थकत्वं प्राप्नुवत् अस्ति । किञ्च सामान्येन अर्थेन संस्कृतम् अद्य कर्म-काण्डभाषा, ग्रन्थालयभाषा, शास्त्रभाषा, वाङ्मयभाषा च (काव्यभाषा वा) अस्ति एव । परं संस्कृतभाषायाः सार्थकरूपेण किञ्च महता प्रमाणेन मातृभाषारूपेण विकासाय अद्य सहस्रशः संस्कृतमातृभाषिशिशवः अपेक्षिताः। 

संस्कृतं यदा बहुसंख्यया मातृभाषा भविष्यति तदा एव सा भाषा सन्तान-परम्परया सह सम्बद्धा सती स्थिरा, शाश्वती, अमरा, अविच्छेद्या च भविष्यति । युगानुवर्तिनी भविष्यति । कालोचितशब्द-प्रयोगदात्री भविष्यति । चैतन्यमयी प्राणमयी सा विनूतनज्ञानगर्भा भविष्यति । असंख्यसम्भावनानाम् आविष्की भविष्यति । नित्यवर्धिष्णुः, बहुमुखविकासोन्मुखी, नवाविष्कारदर्शिनी सती पल्लविष्यति, पुष्पिष्यति, असंख्यफलानि फलिष्यति च। 

यदा भगवान् प्राणिषु मानवान् भाषया पृथक् कृतवान्, भाषया एव जगतः परिचयं कारयति, भाषया चिन्तनसामर्थ्यं दत्तवान् अस्ति तर्हि किमर्थं तस्य भगवतः सृष्टेः वैशिष्ट्यस्य अनुभवं वयं भगवद्भाषया एव न कारयामः ? 

पठनं पाठनं वा विना, सहजतया शिशुः भाषां कथं 'गृह्णाति' ? मातृभाषायाः अधिगमनं / ग्रहणं कथं भवति ? सम्यक् अवगमनाय, भेदं ज्ञातुं च प्रकृतं द्विधा पदप्रयोगं कुर्मः । विद्यालये या भाषा अधीयते, तस्याः भाषायाः 'अध्ययनम्' 'अभ्यासः' इति, किञ्च गृहे मातृभाषारूपेण अथवा परिसरे श्रुत्वा श्रुत्वा च भाषायाः 'ग्रहणम्' 'अधिगमनम्' इति तद् द्वैविध्यम् । द्वयोः प्रक्रिययोः मध्ये भेदः अस्ति । भाषाग्रहणं सहजतया, परोक्षतया च भवति, भाषाभ्यासः प्रयत्नपूर्वकः, ज्ञानपूर्वकः च भवति । सर्वेभ्यः मानवेभ्यः स्वयमेव भाषाग्रहणस्य शक्तिः भगवता दत्ता अस्ति । किं देववाणी तया देवदत्तशक्त्या न 'ग्रहीतव्या' ? 

शिशुः जन्मतः आरभ्य शृणोति, पश्यति च । 'माता' इति पदं शृणोति, मातरं पश्यति च, 'दुग्धं' 'कन्दुकम्' इत्यादीनि पदानि पुनःपुनः शृणोति, तानि वस्तूनि च पश्यति, 'ददामि' इति शृणोति, दानक्रियां पश्यति च । एवं श्रुतस्य ध्वनेः दृष्टस्य वस्तुनः क्रियायाः वा सम्बन्धं मनसि कल्पयति, अनेन प्रकारेण शब्दार्थयोः ग्रहणं करोति । पुनश्च 'अहं गच्छामि' 'सः गच्छति' इत्यादिषु वाक्येषु यः भेदः अस्ति तं भेदम् अपि शिशुः भगवता दत्तया चिन्तनशक्त्या, तर्कशक्त्या च क्रमशः जानाति । एवं विना व्याख्यानेन, विना नियमाभ्यासेन च, स्वमेधया शिशुः मातृभाषां गृह्णाति। 

कक्ष्यायां नूतनायाः भाषायाः अभ्यासस्य सीमितः समयः, सीमिता पाठ्यसामग्री, सीमितं वातावरणम् इत्यादिरूपेण बह्व्य: सीमाः सन्ति चेत् अपि शिशोः मातृभाषायाः ग्रहणाय समयसीमा नास्ति, जगतः प्रत्येकं वस्तु अपि पाठ्योपकरणं, बहवः शिक्षकाः, आदिनं भाषाश्रवणसंस्कारः (Language Exposure), प्रेम्णा वात्सल्येन च भाषां श्रावयन्ति वाचयितुं प्रयतन्ते च, एकमेव शब्दं दिनानि यावत् श्रावयन्ति, दोषभयं नास्ति, प्रतिदिनं प्रतिक्षणं नूतनानां पदानाम् अवगमनं भवति इत्यतः भाषायाः अधिगमनं नाम किञ्चन रुचिपूर्णं कार्यम् । परितः विद्यमानस्य जगतः परिचयसम्पादनस्य कुतूहलं, बुभुक्षापिपासादिकारणतः खाद्य-पेयादीनां प्राप्त्यर्थं भाषाप्रयोगस्य अनिवार्यता, शिशुसहजजिज्ञासा, तया भाषया शिशुः हसति, रोदिति, क्रीडति, क्रुध्यति च इति कारणतः तस्य मनसि भावनानाम् उत्पत्तिः अपि तया भाषया भवति इति एतानि सर्वाणि कारणानि मातृभाषायाः ग्रहणसन्दर्भस्य वैशिष्ट्यानि । भाषाभ्यासस्य अत्युत्कृष्टा पद्धतिः एषा एव । किं जगतः सर्वश्रेष्ठभाषायाः 'ग्रहणं' 'अभ्यासः' वा तया सर्वश्रेष्ठपद्धत्या एव न भवेत् ? 

यदि वयम् अस्माकम् अपत्यानां मातृ-भाषां संस्कृतं कुर्मः, तेभ्यः अपत्येभ्यः मातृभाषारूपेण संस्कृतं दद्मः, तर्हि ततोऽपि महत्तरं भाग्यं, महत्तरां सम्पदं, महत्तरं ज्ञानं वा तेभ्यः किमन्यद् दातुं शक्नुयाम ! इतोऽपि महत्तरम् एतस्मिन् जगतीतले किमपि भवितुं न शक्यते । यत् सौभाग्यम् अस्माभिः न प्राप्तं तद् वयम् अस्माकम् अपत्येभ्यः दद्याम। 

श्रीमती श्रीविद्या विवाहसमये संस्कृतं न जानाति स्म । विवाहानन्तरं पतिः तया सह संस्कृतमातृभाषिपरम्परायाः विषये चर्चितवान् । विवाहानन्तरं स्वस्य भाषा शाश्वताय संस्कृतं भवेदिति सा स्वप्नेऽपि न चिन्तितवती आसीत् । परन्तु पत्युः ध्येयमेव स्वस्य ध्येयं, पत्युः आशाकांक्षास्वप्नाः एव स्वस्य आशाकांक्षास्वप्नाः, पत्युः इच्छाः एव स्वस्य इच्छाः इति या हृदयेन स्वीकृतवती तस्याः धर्मनिष्ठायाः इदानीन्तनं ससन्तोषम् आश्चर्यं नाम तस्याः द्विवर्षीया पुत्री चिन्मयी संस्कृतेन एव स्वप्नान् पश्यन्ती अस्ति इति । संस्कृतेन हसन्तीं, रुदतीं, क्रीडन्तीं च पुत्रीं दृष्ट्वा सा माता अन्याः मातॄ: वदन्ती अस्ति यत् सर्वाः अपि मातरः स्वीयानि अपत्यानि संस्कृतेन वर्धयितुं शक्नुवन्ति, तद् कार्यं कष्टाय नैव भवति इति । नागरत्ना शान्तला-गौरी-वनिता-सावित्री-सीता-सरिता-विजयादयः बह्व्य: मातरः याः स्वगृहे संस्कृतभाषां मातृभाषां कृत्वा नववंशपरम्परासर्जनं कृतवत्यः तासां सर्वासामपि अभिमतम् एतदेव यत् संस्कृतभाषया एव अपत्यानां वर्धनं अतिश्रेष्ठं कार्यम् अस्ति तथा सरलं, सहजम् आनन्दप्रदं च कार्यम् अस्ति इति । 

संस्कृतभाषिशिशूनां संख्यावर्धने मार्गावरोधाः पत्न्यः न, अपि तु अधिकतया पतयः एव । पतिः यदि मनः करोति तर्हि तत्र बहवः मार्गाः सन्ति । ('सङ्क्रमणम्' इति पुस्तके 'संस्कृतगृहम्' इति लेखं पठतु) यदा भारते विविधराज्येषु अहं प्रवासं करोमि; तदा बह्व्य: युवतय: लभ्यन्ते याः संस्कृतगृहं कर्तुम् इच्छन्ति । परन्तु तादृशाः संस्कृतगृहाय कृतसङ्कल्पाः युवकाः विरलतया लभ्यन्ते । अतः युवकेषु मया एतदर्थं विशेषतया प्रार्थना क्रियते । गृहस्थाश्रमस्य अपि कश्चन उद्देशः भवतु । प्रजोत्पत्तेः अपि कश्चन पुण्यप्रदः उद्देशः भवतु । भगवतः समीपे संस्कृतसन्ततिः एव प्रार्थ्यताम् । एषः एव कालोचितः धर्मः। 

नवनिर्माणं नाम किम् ? संस्कृतमातृभाषिपरम्परानिर्माणं नवनिर्माणमेव । एतत् कार्यं संस्कृतभाषाविषयकान् सर्वान् भ्रमान् ध्वंसयिष्यति, अवरुद्धस्य भाषाप्रवाहस्य गतिरोधं भञ्जयित्वा पुनरपि भाषां प्रवाहयिष्यति । सहस्राधिकवर्षाणाम् अधोगतेः मार्गं परिवर्त्य उत्कर्षपथे गमयिष्यति । अवयानात् उत्थानं प्रति नोत्स्यति । 

कार्यम् इदं प्रधानमन्त्रिणः कार्यस्य अपेक्षया अपि महत्तरं, सहस्रचण्डीयागस्य अपेक्षया अपि अधिकं पुण्यप्रदं च । संस्कृतविश्वविद्यालयस्थापनापेक्षया अपि रचनात्मकतरं, विधायकतरं कार्यम् इदं प्रकृतं तु संस्कृतेन महाकाव्यरचनापेक्षया अपि अधिकं संस्कृतोपकारकम् - इति 1993 तमे वर्षे काश्यां कश्चन वृद्धपण्डितः उक्तवान् आसीत्। 

एतदर्थं न धनव्ययः, न समयव्ययः, न वा शारीरकश्रमः करणीयः । मनः करणीयम् इति तावदेव । आवश्यकता केवलम् उन्मादस्य, संस्कृतोन्मादस्य, ध्येयोन्मादस्य । संस्कृतम् एव जीवनं, संस्कृतेन एव जीवनं, संस्कृताय जीवनं, संस्कृतात्, संस्कृतस्य, संस्कृते एव जीवनं, तदर्थं न दैन्यं न पलायनम् इति तादृशं जीवनं जीविष्यामि, साधयिष्यामि इति एतादृशेन अस्माकम् उन्मादेन एव मातुः सरस्वत्याः प्रमोदः भवेत् । एकैकः ध्येयनिष्ठः कार्यकर्ता चिन्तयेत् यत् संस्कृतमातृभाषिपरम्परोज्जीवनाय अहं, मम पुत्रः पौत्रः, प्रपौत्रः, पुत्रप्रपौत्रः, पौत्रप्रपौत्रः, प्रपौत्रप्रपौत्रः इति अस्माभिः सप्तवंश-परम्परापर्यन्तं कार्यं करणीयं भविष्यति चेदपि तावत्पर्यन्तं कार्यं कृत्वा अपि भगवत्याः कार्यमिदं साध्यं साधनीयमेव ।
 
एतस्मिन् कार्ये क्लेशः केवलं सङ्कल्पस्य, दृढसङ्कल्पस्य । गृहे संस्कृतेन व्यवहारस्य 'starting trouble' इति तावदेव । एकवारं प्रारम्भं करोतु, अनन्तरं तु शकटः स्वयम् एव अग्रे गच्छन् भविष्यति । 'मम विवाहः तु दशकपूर्वमेव जातं, दशकद्वयपूर्वमेव जातम्, अपत्यानि अपि इदानीं युवकानि जायमानानि सन्ति खलु' इति चिन्ता करणीया नास्ति । (न वा एतदर्थमेव अन्यः विवाहः करणीयः ।) अद्य एव, इदानीमेव गृहे भवान् सर्वैः सह संस्कृतेन व्यवहारस्य प्रारम्भं करोतु । 'उन्मत्तः' भवतु । शिष्टं भगवान् पश्यति। 

सर्वः अपि संस्कृतच्छात्रः, संस्कृतानुरागी च 'भारतीयजनानाम् आङ्ग्लमोहः अस्ति, सर्वे स्वसुतान् आङ्ग्लमाध्यमेन पाठयन्ति, गृहे आङ्ग्लभाषया एव वदन्ति' इत्यादि-रूपेण असन्तोषं प्रकटयति । सः सर्वः अपि संस्कृतच्छात्रः, संस्कृतशिक्षकः, संस्कृतानुरागी च स्वस्मिन् विद्यमानस्य आङ्ग्ल-विरोधभावस्य स्थाने संस्कृतैकप्रतिबद्धभावं प्रतिष्ठापयतु, यावत्प्रमाणेन आङ्ग्ल-विरोधभाषणं करोति स्म, ततोऽप्यधिक-प्रमाणेन संस्कृतेन भाषणस्य प्रारम्भं करोतु । संस्कृतमोहं दर्शयतु । अन्ये गृहे आङ्ग्लभाषया वदन्ति चेत् भवान् गृहे संस्कृतेन वदतु ! कुटिप्पणीकरणापेक्षया सुभाषणं (संस्कृतभाषणं, संस्कृतेन भाषणं) वरं खलु ! 

केषाञ्चित् युवकानां मनस्सु 'यदि मम अपत्यम् अहं संस्कृतेन वर्धयेयं तर्हि मम मातृभाषायाः किं भवेत्, सः तां जानीयाद् उत न, मम पितृभ्यां श्वशुराभ्यां वा सह तस्य व्यवहारः कथं भवेद्, बन्धुभिः सह समरसत्वम् अनुभवेद् उत न, शिक्षायाः किं भवेत्' - इत्यादिरूपेण प्रश्नाः भवन्ति । (परन्तु नर्सरीकक्ष्यातः आरभ्य इङ्ग्लिष्-भाषामाध्यमेन पाठने एते प्रश्नाः न भवन्ति, तादृशशिक्षणतः बालानां न आङ्ग्ल-भाषायां प्रभुत्वं, न वा भारतीयभाषायां, ते तु इतोभ्रष्टाः ततोभ्रष्टाश्च इति तु अन्यः विषयः।) 

अद्यपर्यन्तम् अहम् उपदश संस्कृतमातृभाषिबालान् दृष्टवान्, तेषां गृहाणाम् अनुभवेन सधैर्य वक्तुं शक्यते यत् उपरितनाः शङ्काः नैव कर्तव्याः इति । प्रत्युत भिन्नाः आश्चर्यजनकाः एव अनुभवाः सन्ति । यथा - 
1) संस्कृतभाषाम् अन्य-भाषाः इव (अन्यबालाः इव) बहु सम्यक् गृह्णन्ति, समानगत्या गृह्णन्ति च । 
2) बालाः संस्कृतज्ञानकारणेन इतरभाषाः अपि बहु शीघ्रं गृह्णन्ति 
3) सामान्यतया एते उपदश अपि बुद्धिमन्तः एव दृष्टाः । 
4) भावनात्मकविकासः अपि सुष्ठु भवति 5) सर्वैः सह, इतरैः बालैः सह च सम्मिलिताः समरसाश्च भवन्ति इति । किञ्च विज्ञानानुसारं जन्मतः आरभ्य पञ्चदश-वर्षपर्यन्तं षट् भाषाः ग्रहीतुं मानवस्य सहजं देवदत्तसामर्थ्यं भवति इति अयं सिद्धान्तः सर्वविदितः एव । मानवस्य एतां शक्तिं एल्.ए.डि. (Language Acquisition Device) इति वदन्ति । 

ये युवानः विवाहावस्थायां सन्ति ते तु अवश्यमेव संस्कृतमातृभाषित्वं मनसि निधाय एव भाविनीं स्वजीवनरचनां कुर्युः, तदनुसारमेव स्वजीवनसहधर्मिण्याः चयनं कुर्युः । परन्तु जीवने ये द्वित्राणि पदानि अग्रे गतवन्तः सन्ति ते अपि धर्मकर्मणः कृते विलम्बं न कुर्युः, नैवत्वापेक्षया विलम्बत्वम् अपि समीचीनतरं, शुभस्य शीघ्रम् इति इदानीमपि गृहे संस्कृतव्यवहारस्य प्रारम्भं कृत्वा जीवने नूतनस्य अध्यायस्य प्रारम्भं कुर्युः । जीवनस्य शेषसमयः वा संस्कृतमयः भवतु । अपत्यानाम् अपि 'जन्मतः' इति भाग्यं न जातं चेदपि 'बाल्यतः' संस्कृतम् इति सौभाग्यं तेभ्यः दातुं शक्नुयाम । तेन च न्यूनातिन्यूनम् अग्रे पौत्रदौहित्राणां मातृभाषा संस्कृतं भवेत् ! 

मातृभाषिपरम्परा पुनरुज्जीविता इति उदाहरणम् इतिहासे अन्यत् एकमात्रम् एव अस्ति । 2300 वर्षाणि यावत् हीब्रूभाषा (इस्रेल्देशस्य यहूदीयानां वा भाषा) नित्यव्यवहारे न आसीत् । हीब्रूभाषया क्रीडन्तः बालाः न आसन् । धर्म-विषयकचर्चासु, प्रार्थनामन्दिरेषु प्रार्थनासु, धार्मिकग्रन्थरचनासु च केवलं हीब्रूप्रयोगः भवति स्म । परं 1890तमे वर्षे गृहेषु हीब्रूभाषायाः व्यवहारेण हीब्रू-पुनरुज्जीवनान्दोलनस्य प्रारम्भः अभवत् । 1925 तमवर्षपर्यन्तं हीब्रूभाषा न केवलं पुनरुज्जीविता, अपि तु तदानीन्तनेन टर्कशासनेन (यत् शासनं यहूदीयानां हीब्रूभाषायाः च प्रतिकूलम् आसीत् तेन ।) राजभाषासु अन्यतमभाषात्वेन स्वीकृता । स्वीकरणीया अभवत् ! यतः तावती जाता हीबूभाषायाः प्रचुरता लोकप्रियता च । एतस्मिन् हीब्रूपुनरुज्जीवनान्दोलने प्रमुख भूमिकाभूतः आसीत्, मुख्यः आधारः आसीत्, समग्रस्य आन्दोलनस्य केन्द्रबिन्दुः आसीत् . हीब्रूमातृभाषिपरम्परायाः पुनरुज्जीवनम् इत्यंशः । प्रत्येकं यहूदस्य श्रद्धा, विश्वासः प्रतिबद्धता च आसीत् यत् इस्रेल् राष्ट्रस्य स्वातन्त्र्यं नवनिर्माणं च यावद् अनिवार्यं तावता एव मात्रेण अनिवार्यम् अस्ति हीब्रूमातृभाषिपरम्परायाः पुनरुज्जीवनं तथा च द्वितीयस्य द्वारा एव प्रथमं साधयितुं शक्यते इति। 

संस्कृतेन मातृभाषया एव किमर्थं भवितव्यम् ? उत्तरम् अत्यन्तं सरलम् । भारते विविधराज्येषु मातृभाषाविषये येभ्यः कारणेभ्यः आग्रहः क्रियते, भारताद् बहिः च भारतीयाः मातृभाषां मातृभाषारूपेण एव रक्षितुं येभ्यः कारणेभ्यः प्रयत्नशीलाः सन्ति तेभ्यः कारणेभ्यः एव संस्कृतमपि मातृ-भाषारूपेण तिष्ठेत् इति। 

मातृभाषा, प्रादेशिकभाषा, प्रथमभाषा, द्वितीयभाषा, विदेशीयभाषा, राजभाषा, सम्पर्कभाषा इत्यादिरूपेण याः विविधभाषाः सन्ति तासु सर्वासु अपि मातृभाषा एव सर्वश्रेष्ठा, सा एव प्रथमपूज्या, सुज्ञेया, अत्याज्या, नित्यप्रयोज्या च भवति । संस्कृतमपि मातृभाषा आसीत्, पुनरपि मातृभाषा भवेत् । लक्षशः, कोटिशः जनानां मातृभाषा भवेत् । भवेदेव। 

मातृभाषा अत्याज्या इति भवता एव उच्यते, पुनः इदानीं मम मातृभाषां त्यक्त्वा संस्कृतभाषां मातृभाषां करोतु इति भवान् वदति खलु इति कश्चन पृच्छेत् । सत्यम् । कस्मिंश्चित् राज्ये द्वित्रसहस्रपरिवाराः संस्कृतं स्वीयमातृभाषां करिष्यन्ति इति चिन्तयतु । तदा सा संख्या तस्याः प्रादेशिकभाषायाः 0.001% अपि न भविष्यति इत्यतः तावता तस्याः प्रादेशिकभाषायाः न किमपि विनश्यति । परन्तु तेन लघुमात्रेणापि कार्येण न केवलं संस्कृतभाषायाः, अपि तु जगतः सर्वश्रेष्ठसभ्यतायाः, सर्वश्रेष्ठजीवनदर्शनस्य च उज्जीवनं भविष्यति । संस्कृतमातृभाषि-परम्परोज्जीवनं नाम भारतीयज्ञान-परम्परोज्जीवनम् । किं तदर्थं वयं तावदपि मूल्यं दातुं न सिद्धाः ? तावन्तं क्लेशं सोढुं न सिद्धाः ? संस्कृतमातुः तावती वा सेवां कर्तुं न सिद्धाः ? किं सर्वजनभाषिसंस्कृतस्य, प्रदीप्तभारतस्य च कल्पनामात्रेण भवतः रोमाञ्चनं न जायते ? 

आगामिषु विंशत्यां त्रिंशति वा वर्षेषु भारतस्य सर्वेषु राज्येषु, जनपदेषु, मण्डलेषु नगरेषु च संस्कृतमातृभाषिजनाः सृष्टाः भवेयुः । तदा देशे संस्कृतविषयक-वायुमण्डलम् एव भिन्नं भविष्यति । ते अखिलभारतव्याप्ताः संस्कृतमातृभाषि-जनाः, तेषाम् अपत्यानि च वेदान् शास्त्राणि च उद्धरेयुः । भारतस्य अतीतं वैभवं पुनः प्रतिष्ठापयेयुः। 

संस्कृतक्षेत्रस्य युवतियुवकानां मध्ये संस्कृतगृहविषये, संस्कृतमातृभाषिशिशूनां विषये च चर्चा भवतु । महती चर्चा भवतु । स्वप्नाः च सन्तु । एतदर्थं सर्वे आचार्याः स्वशिष्यान् बोधयेयुः । कक्ष्यायां प्रेरयेयुः च । संस्कृतमातृभाषिपरम्परा काचित् अत्यन्तं महत्त्वपूर्णा राष्ट्रिया आवश्यकता। 

पूर्वं ग्रामे ग्रामे, नगरे नगरे, गृहे गृहे च कश्चन दीपः ज्वलति स्म । बहुभ्यः युगेभ्यः अविरतरूपेण ज्वलति स्म । तस्य दीपस्य प्रकाशेन एव भारतं जगद्गुरुः आसीत् । सः दीपः पुनः स्थाने स्थाने ज्वालनीयः अस्ति । किं वयं तस्य पुनर्जालनाय वर्तिकाः तैलं च भवितुं शक्नुयाम ? 
         ***

No comments:

Post a Comment