पितृसेवा--
प्रत्येकं मनुष्यस्य कृते पितरः अत्यन्तम् आदरणीयाः भवन्ति । मातापित्रोः कारणतः सन्ततयः जगद्द्रष्टुं महत् सौभाग्यं प्राप्नुवन्ति मनुष्यजीवने । सन्तत्युपरि पित्रोः प्रेमत्यागादयः वर्णनातीताः । स्वयं कष्टं सोढ्वा सन्ततीनां सुखाय हिताय च तौ प्रयतेते अहर्निशम् । तौ तेषाम् उपरि सर्वदा कृपादृष्टिः एव स्थापयतः । पुत्रः महामूर्खः, अधमश्च एव भवतु नाम, परन्तु तयोः मातापित्रोः तस्योपरि यः दयाभावः, सः कदापि न्यूनः न भवति । एतादृशः अकृत्रिमस्नेहः तु पित्रोः एव दृश्यते, सन्तत्युपरि । अतः प्रत्येकं मनुष्यस्य कृते पितरौ एव प्रथमपूजनीयौ स्तः जीवने ।
'मातापित्रोः परं तीर्थम्' इति शास्त्रवाणी । परन्तु सम्प्रति जनसमाजे पितरौ अवहेलनायाः पात्रतां गच्छन्तौ स्तः । क्वचित् पुत्रैः तौ प्रताडीतौ दृश्येते, क्वचिच्च तैः अवाच्यवचनद्वारा निन्दितौः, उपहसन्तौ च अवलोक्येते । तेषां कृते एव पितृभ्यां पूर्वकृतः उपकारः पुत्रैः सर्वथा विस्मृत्य तौ पितरौ प्रताड्यमानौ वर्तेते सामान्य-कारणतः । पित्रोः अशेष-प्रचेष्टायामेव सन्ततयः उच्चशिक्षाम्, उच्चोद्योगम्, यथेष्टं धनं प्राप्नुवन्ति । तत्पदधनगर्वेण एव सन्ततीनां पुरतः पित्रौ अवहेलितौ जातौ स्तः वृद्धावस्थायाम् । केचन पितरः वृद्धाश्रमे आश्रिताः दृश्यन्ते । धिक् एतादृशान् नराधमान् पुत्रान् !
पुत्रः पितृऋणात् कदापि अनृणः भवितुं नार्हति । परन्तु एते अधमाः तु पूजनीयौ पितरौ अपि वृद्धाश्रमे निक्षिपन्ति । अहो, एतेषां किं जन्मजन्मान्तरे अपि मुक्तिः कल्याणं वा भवितुमर्हेत् ? न कदापि ।
शास्त्रेषु पितृमहिमा स्पष्टतया लिखितः प्राप्यते --
'नास्ति पितृसमो गुरुः', 'न च मित्रं पितुः परम्', 'पिता देवो जनार्दनः', 'पितृदेवो भव', 'मातृदेवो भव' इत्यादयः । पुनश्च,
पिता धर्मः पिता स्वर्गः पिता हि परमं तप ।
पितरि प्रीतिमापन्ने प्रीयन्ते सर्वदेवता ।।
अत एव मातापितरौ पुत्रपुत्रीणां कृते सर्वदा पूजनीयौ, अादरणीयौ, सेवनीयौ च वर्तेते इति, शम् !
-- नारदः, १५/०२/२०२०.
No comments:
Post a Comment