Tuesday, May 19, 2020

how to make aviyal -Sanskrit recipe

 पाक टिप्पण्य:

                                                                                        अवियल्

नम्स्ते।
 न केवलं केरलेषु अपि तु समग्रे देशे  प्रसिद्धम् अस्ति अवियल् इति विख्यात: व्यञ्जनविशेष:।
एतस्य वैशिष्ट्यं किम् इत्युक्ते, अवियल् व्यञ्जनरीत्या,क्वथितरीत्या अपि भोक्तुम् अर्हति। न केवलं  भोजनेन सह  अपि  तु  चप्पत्ति,पूरी, दोशा इत्यादिभि: सह अपि अवियल्  सहभोजनत्वेन योग्यं वर्तते।
केरलेषु सग्धिषु (सत्कारभोजनं) अनिवार्यघटकमस्ति अवियल्। अवियल् सर्वेषां भोक्तॄणां प्रियकरं भोज्यमस्ति इति  न कोपि आश्चर्यस्य विषय: । अवियल् न इच्छति इति जना: अति विरला: एव स्यु:।
यद्यपि अतिप्रसिद्धा, अस्य पचनप्रक्रिया तु अति सरला वर्तते। प्राय: सर्वाणि  शाकानि अपि अवियल् पचनाय उपयोगाय भवन्ति ।  मलयाल भाषायाम् काचित् सूक्ति: वर्तते,
" अजाय अभोज्यं  पर्णं नास्ति अवियल् निमित्तम् अयोग्यं शाकं नास्ति" ( अजा: प्राय: सर्वाणि पर्णान्यपि खादन्ति खलु, समानं  'अवियल् ' निमित्तं अयोग्यम् इति शाकं न भवति )

सामान्यतया उपयुज्यमानानि शाकानि :-
  कूष्माण्डं, कूष्माण्डकं, सूरनकं, आलुकं, कदलीशाकं, आम्रशाकं, शिग्रु:, गृञ्जनकं, उर्वारुकं, कलायम्, कर्कटी,   मुद्गम्।  ( सर्वाणि शाकान्यपि  मिलित्वा आहत्य प्राय:  सार्धैककिलॊ परिमितं भवेत्)

हरितमरीचिका ६ वा ७  
कृष्णनिम्बपत्रं
नालिकेरतैलं १०० मिल्लीलिट्टर्
आम्लं दधि   २०० मिल्लि लिट्टर्
नालिकेरम् ( अर्धं नालिकेरम्)
लवणम् । 

अङ्गुलीवत् शाकानां खण्डनं करणीयम्। नालिकेरं सूक्ष्मखण्डनं कृत्वा हरितमरीचिकया सह पेषणशिलया अथवा मिश्रकयन्त्रद्वारा वा पेषणं कृत्वा खण्डि्तै: शाकै:सह पात्रे संस्थाप्य पर्याप्तमात्रेण लवणं संयोज्य , पर्याप्तमात्रेण जलं संयोज्य  सम्यक् पाकं कुर्यात्। यदा सर्वाणि शाकानि पक्वानि, चुल्ल्या: तापं न्यूनं कुर्वन्तु। कृष्णनिम्बपत्रं, एकं चषकपरिमितं दधिं  च योजयन्तु। यदा  पुन: तपनस्य आरम्भ: दृश्यते, एकदर्वीपरिमितं नालिकेरतैलं (तपनं विना) योजयन्तु। पात्रम् चुल्लीत: निष्कासयन्तु।स्थालिकया पिधानं कुर्यात्।
  ५ निमिषाणां अनन्तरं अवियल् भोजनाय सिद्धमस्ति।
( क्वथितवत् आवश्यकं चेत्,  पाकस्य आरंभे एव जलम् अधिकं योजयाम:, जलसमृद्धशाकानि अधिकं योजयाम:। अत्र धान्यकस्य वा हरिद्राचूर्णस्य वा , शुष्कमरीचिकाया:  वा: उपयोग: नास्ति। पलाण्डु:, लशुणं च न युज्यते। तथापि , केरलेषु  केषुचित् पलाण्डुं योजयन्ति)

अनन्त कल्याण कृष्ण:।

No comments:

Post a Comment