Tuesday, May 12, 2020

How many mosquitoes you can kill - Sanskrit joke

अहं शान्त्या सुखेन च उपविशन् आसम्। 
तदा एव केचन मशकाः आगत्य मम शरीरात् रक्तपानं कर्तुम् आरब्धवन्तः। 

असहमानः अहं तदा हस्तेन एकां चपेटिकां दत्तवान्।

तस्माच्च केचन मशकाः मृताः अभवन्। 

तदा एव अन्ये सर्वे मशकाः कोलाहलं कर्तुम् आरब्धवन्तः यद् अहमेव असहिष्णुः  अभवम् इति। 

तदा अहं पृष्टवान् अत्र असहिष्णोः का वार्ता अस्ति? 
मम रक्तपानं कुर्वन्तः आसन् अतः अहं तान् हतवान्। 
अत्र दोषः कुत्र इति। 

तदा मशकानाम् एकः हितैषी उक्तवान् रक्तपानं तु मशकानां मौलिकाधिकारः वर्तते, किमर्थं भवान् तान् हतवान्? 

*त्वया कति मशकाः हनिष्यन्ते , सर्वस्मात् अपि गृहात् एकैकः मशकः बहिरागमिष्यति।*😁🤣
*-प्रदीपः!*

No comments:

Post a Comment