Tuesday, May 19, 2020

Carrying your riches after death - Sanskrit essay

*लोकान्तरधनपत्रम्*

धनाढ्यः कश्चन व्यापारी कदाचित् चिन्तामग्नो जातः । मया आर्जितात् मेरुतुल्यात् सम्पाद्यात् कथं किञ्चिद्वा धनं परलोकं प्रति नयामि येनाहं तत्रापि सुखी भवेयम् इत्येव तस्य चिन्ता । समस्याया उत्तरं नैव प्राप्तम् ।स एकदा  समाधानाय स्वकीयमित्रम् अपृच्छत्। कथं मम वित्तं परलोकपर्यन्तं भद्रं नेष्यामि इति । तत् श्रुत्वा  तस्य विवेकी सुहृत् तं पृष्टवान् । 

*यदि अमेरिकादेशं गमिष्यसि तर्हि कथं धनं नेष्यसि ?*

 _इत एव मम धनं परिवर्त्य डोलर् धनपत्राणि नेष्यामि।_ 

 *यदि जाप्पानदोशं गमिष्यसि तर्हि ..... ?*  

 _मम रुप्यकाणि अत्रैव परिवर्तनं कृत्वा तद्देशस्थानि धनपत्राणि नयामि_ 

 तर्हि परलोकयात्रार्थं तदेव करणीयं  *पुण्यम् इति किञ्चन धनपत्रं तत्र विनिमये अस्ति* जीवनकाले तत् सम्पाद्य नेतुं शक्यते भवान् ।

मित्रवचनस्य सारांशं गृहीत्वा व्यापारी ततः निर्गतवान्।।


- सुनीशः

No comments:

Post a Comment