Thursday, May 21, 2020

4 types of persons- skanda Purana

हर उवाच-

चतुर्विधा भजन्ते मां जनाः सुकृतिनःसदा।
आर्तोजिज्ञासुरर्थार्थीज्ञानी च द्विजसत्तम॥

तस्मान्मे ज्ञानिनः सर्वे प्रियाः स्यान्नात्र संशयः।
विना ज्ञानेन मां प्राप्तुं यतन्ते ते हि बालिशाः॥

केवलं कर्मणां त्वं हि संसारात्तर्तुमिच्छसि।।
न वेदैश्च न दानैश्च न यज्ञैस्तपसा क्वचित्।
न शक्नुवन्ति मां प्राप्तुं मूढाः कर्शवशा नराः॥

तस्माज्ज्ञानमयो भूत्वा कुरु कर्मसमाहितः।
सुखदुःखसमो भूत्वा सुखी भव निरन्तरम्॥
   --स्कान्दपुराणम्।केदारखण्डम्।

No comments:

Post a Comment