Friday, April 3, 2020

Who is the seventh? - Sanskrit story

सत्तमः कः ? 

एकस्मिन् ग्रामे एकः पण्डित आसीत्  आत्मानं भगवतः महाभक्तोऽहम् इति तस्य चिन्तनम् । तस्मिन्नेव ग्रामे एकः चर्मकारोऽपि आसीत् । सः नित्योपजीवनार्थम् आदिनं कार्यमग्नो भवति स्म।
अथैकदा पण्डितः देवदर्शनाय गच्छन् आसीत्। मार्गे तस्य पादरक्षा भग्ना जाता पादरक्षासमीकरणाय पण्डितः चर्मकारस्य कुटीरस्य समीपं गत्वा आज्ञाभावेन एवम् 

" रे  शीघ्रं मम पादरक्षां सम्यक् कुरु ।"

एतत् श्रुत्वा चर्मकार अनुक्षणं कार्यम् आरब्धवान् । यदा सः कार्यं कुर्वन् आसीत् तदा पण्डितः तम् एवमपृच्छत् ।

" किं त्वं मन्दिरं न गच्छसि अपि भगवति ईषद् भक्तिरपि नास्ति तव ? "

एतत् श्रुत्वा सः विनयेन उत्तरं दत्तवान् 

"श्रीमन् ! अहम् आदिनं श्रमं कृत्वैव कुटुम्बं पालयामि मन्दिरदर्शनाय मम समयः कुतः? " इति

एतत् श्रुत्वा पण्डितः किञ्चित् उपहासभावेन स्थितवान् तावता चर्मकारः दोषनिवारणं कृत्वा पादरक्षां तस्य पुरतः स्थापितवान् । 

 " कीयत् धनं दास्यामि ? " इति पण्डित अपृच्छत् ।

तदा चर्मकारुण एवमुक्तम् 

" श्रीमन् ! किमपि नेच्छामि यतो भवान् भगवतः परिपूर्णभक्त एवञ्च जानाम्यहम् अधुना मन्दिरं प्रति गच्छन् अस्तीति यदि शक्यते तर्हि मम कृते एकम् उपकारं करोतु तेन अलम् "।

" क उपकारः ?  त्वरितं वद "

इति पण्डितः आदिशत् ।

तदा स्वकीयविदीर्णात् स्यूतात् नाणकानि स्वीकुर्वन्  सः पण्डितम् एवमवोचत् 

" मन्दिरे समर्पणाय एतानि मया कष्टेन संगृहीतानि किन्तु गन्तुम् अवसरो नास्ति कृपया भवानेव स्वल्पमिदं तत्र समर्पयतु "  इति।

तावदल्पं धनं दृष्ट्वा पण्डितस्य मनसि तस्योपरि अवज्ञा भावः उत्पन्नः ‌तथापि आत्मानं परमभक्त इति मन्यमानः सः तद्धनं स्वीकृत्य हसन् गतवान् ।।

मन्दिरं प्राप्य यदा पण्डितः धनं क्षिप्तुम् उद्युक्तः तदा भगवान् स्वयमेव आगत्य हस्तद्वयेन धनं गृहीत्वा तस्मै चर्मकराय दातुं हस्तात् सुवर्णकङ्कणमेकं निष्कास्य दत्त्वा अन्तर्धानमकरोत्।
 
एतेन पण्डितः परमविस्मितः  ईर्ष्यायुक्तश्च जातः सः साधारणः अज्ञानी चर्मकारः सर्वथा एतत् कङ्कणार्हः नास्तीति स्वयं निर्णयन् सः गृहं गत्वा पत्न्यै कङ्कणं दत्तवान्।।

चतुरा तस्य भार्या  कङ्कणं क्षिप्रं राज्ञे समर्प्य पारितोषिकरूपेण धनं स्वीकृत्य आगच्छतु इति पतिम् उक्तवती अन्यथा राजभटाः कदाचित् आगत्य अवैधरित्या सम्पादितं सुवर्णम् इत्युक्त्वा नयन्तीति तस्याः भयम् आसीत्। वास्तवं वास्तवम् इति वदन् पत्नीं प्रशंसयन् पण्डितः राजभवनं गत्वा राज्ञे कङ्कणम् समर्पितवान् । राज्ञीप्रसादतत्परः राजा तत् स्वीकृत्य अन्तः पुरं गतवान् ।।

" कङ्कणं सदैव युगलं भवति। सः पुरुषः भवन्तं वञ्चयित्वा पारितोषिकं स्वीकर्तुम् एव आगतवान् " - इति लोभिनी राज्ञी अवोचत् ।

 हा हन्त ! एतत् श्रुत्वा राजा सिंहः इव गर्जयन् अपरम् अपि कङ्कणं सूर्यास्तमनात्पूर्वम् आनेतुम् पण्डिताय उग्रादेशं दत्तवान् ।।

प्राणापायभीतः सन् पण्डितः चर्मकारस्य कुटीरं धावित्वा तस्य पादतले दण्डवत् पतितवान् । अश्रूणि मुञ्चन् आर्त्तस्वरेण प्रवृत्तं सर्वं चर्मकारस्य पुरतः उक्तवान् च ।
पूर्वापरबन्धं विना तत्सर्वं श्रुत्वा विस्मितः सः चर्मकारः अर्धनिद्राजागरितः इव अस्पष्टताकारणात्  भवन्तं ‌रक्षयितुं मया किं करणीयम् ? इति पण्डितं पृष्टवान् ।  ‌भवतः स्यूते अवशिष्टानि कानिचन नाणकानि दत्त्वा मां मन्दिरं प्रति सद्यः एव  प्रेषयतु इति पण्डितः प्रोक्तवान् ।

तथैव इत्युक्त्वा दीनानुकम्पया भगवन्तं हृदि स्मरन् नाणकानि स्वीकर्तुं चर्मकारः स्यूतं हस्तेन उद्घाटिवान् ।

अहो !! महदाश्चर्यं !! तस्मिन्नेव स्यूते अनुरूपम् अपरं कङ्कणं ताभ्यां दृष्टम् । 
कालपाशात् मुक्तिं प्राप्नुवन् दीर्घं निश्श्वसन्
पण्डितः चर्मकारं पृष्टवान् 

" भोः ! कथं मन्दिरस्थस्य भगवतः हस्ते विद्यमानम् अपरं कङ्कणं भवतः स्यूते आगतम् "

इति ।

एतत् श्रुत्वा विनयेन चर्मकारः पण्डितम् अवोचत्

 " महात्मन् ! मन्दिरं कुत्र  कङ्कणं कुत्र कथम् अपरं कङ्कणम् अत्रागतम् एतत् सर्वम् अहम् न जानामि एव परम् एकमेव जानामि यद्भगवान् मम हृदये अस्तीति "।
 
कङ्कणं यच्छन् अनुक्षणमेव चर्मकारः कार्यमग्नः सञ्जातः तदैव स्वकीयम् अज्ञानं ज्ञात्वा लज्जया पण्डितः ततः निर्गतः।।



- सुनीश् नम्बूदिरी , बेङ्गळूरु ।।

No comments:

Post a Comment