*भगवतः शिवस्य व्रतकथा!*
पुराकाले वाराणस्याम् एकः व्याधः आसीत्।
अहर्निशं सः जीवहत्यां कृत्वा अटति स्म।
एकदा व्याधः मृगयार्थं वनं गत्वा बहून् पशून् अहन्। तदा सायंकालः अभवत्।
तदा सः गृहं प्रति प्रत्यागन्तुं चलनम् आरभत।
किञ्चित् कालपर्यन्तं सः अटनात् परं रात्रिः अभवत्। घोरः अन्धकारः अभवत्। तदा सः अत्यन्तं श्रान्तः अपि आसीत्।
रात्रौ सः कथं गृहम् आगच्छेत् इति चिन्तयित्वा सः तस्मिन् वने एकस्य वृक्षस्य अधः उपाविशत्।
परन्तु रात्रौ एकाकी एव कथं वने स्थातुं शक्नोमि यतः वने हिंस्रजन्तवः आसन् इति चिन्तयित्वा सः एकं वृक्षम् आरुह्य वृक्षस्य एकस्यां शाखायाम् उपाविशत्।
दैवात् सः वृक्षः बिल्ववृक्षः आसीत्, वृक्षस्य अधः शिवलिङ्गमपि आसीत् इति सः न जानाति स्म।
रात्रौ तस्य किञ्चिदपि निद्रा नाभवत्। तस्मिन् दिने महाशिवरात्रि आसीत् इतोपि सः न जानाति स्म।
रात्रौ तुषारपातः अभवत्। तेन वृक्षस्य पत्राणि आर्द्रीभूतानि आसन्।
तस्य व्याधस्य हस्तस्पर्शकारणात् आर्द्रीभूतं बिल्वपत्रं वृक्षात् पतित्वा शिवलिङ्गस्य उपरि पतितम् अभवत्।
तेन भगवान् शिवः अत्यन्तं सन्तुष्टः अभवत्।
प्रातःकाले सः वृक्षात् अवतीर्य स्वगृहम् अगच्छत्। तस्य गृहजनाः अपि तस्य प्रतीक्षां कुर्वन्तः आसन्।
गृहम् आगत्य सः स्नानं कृत्वा यदा भोजनं कर्तुम् उपाविशत् तदा एव एकः बुभुक्षितः भिक्षुकः तस्य गृहम् आगच्छत्।
सः व्याधः तदा स्वस्य कृते प्रदत्तं भोजनं स्वयं न खादित्वा तस्मै भिक्षुकाय अयच्छत्।
अज्ञानवशात् तस्य पारणस्य फलमपि अभवत्।
एवमेव कानिचन दिनानि अतीतानि। एकदा तस्य व्याधस्य एकः महान् रोगः अभवत् यस्मात् तस्य मृत्युः अभवत्।
तस्य मृत्योः परं शिवदूताः तं नेतुम् आगतवन्तः आसन्, अन्यत्र च तं नेतुं यमदूताः अपि आगतवन्तः आसन्।
इदानीं तं व्याधं के नयन्ति इति कृत्वा तयोः उभयोः दलयोर्मध्ये महान् विवादः सञ्जातः अपि च तयोः दलयोर्मध्ये महद् युद्धम् अपि अभवत्।
युद्धे यमदूताः पराजिताः अभवन्।
तदनन्तरं शिवदूताः तं नीत्वा कैलासम् अगच्छन्।
यमदूताः अपि तेषां पृष्ठतः कैलासम् अगच्छन्।
तत्र कैलासे द्वारपालः आसीत् नन्दी। ते यमदूताः व्याधस्य विषये सर्वं वृत्तान्तं नन्दिम् अश्रावयन्।
नन्दी सर्वं विदित्वा तान् अकथयत् यः एकवारमपि बिल्वपत्रैः भगवतः शिवस्य पूजां करोति तस्य मुक्तिः भवति। अतः तस्य व्याधस्य उपरि अस्माकम् अधिकारः इति।
नन्दिमहाराजस्य वचनं श्रुत्वा ते यमदूताः यमराजस्य समीपं गत्वा सर्वम् अश्रावयन्।
यमराजः अपि तच्छ्रुत्वा अङ्ग्यकरोत् यद् यः शिवभक्तः विष्णुभक्तः वा भवति तस्य उपरि अस्माकम् अधिकारः न भवति इति।
*ॐ नमः शिवाय ॐ*।🚩🙏
*-प्रदीपः!*
No comments:
Post a Comment